________________
शास्त्रवातो
॥ ४४ ॥
गुर्वी गुरुत्ववती, मे मम तनुः, इत्यादौ प्रयोगे भेदप्रत्ययदर्शनात्, अभिमतस्यैव त्वया बाधकत्वेनाऽङ्गीकृतस्यैव, अस्य 'अहं गुरुः' इति प्रत्ययस्य, भ्रान्तता युक्ता, तु पुनः, नेतरस्य - 'अहं जाने' इत्यादिप्रत्ययस्य, तत्र बाधकाऽनवतारात् । अत्र ' षष्ठ्या यद्यपि संबन्धमात्रमर्थः, तथापि तस्या भेदनियतत्वेन शरीरेऽहंत्ववद् भेदस्य शाब्दबोधोत्तरमाक्षेपलभ्यत्वेन गुरुत्वे मद्भिन्नवृत्तित्वेनोक्तप्रत्ययेऽहंत्वव्यधिकरणप्रकारकत्वलक्षणभ्रमत्वग्रहः' इति वदन्ति । 'भेदविशिष्टः संबन्ध एव पष्ठ्यर्थः, राहोः शिर इत्यादौ तु बाधाद् भेदांशस्त्यज्यते' इत्यन्ये । यद्यपि 'ममाऽऽत्मा' इत्यादावपि षष्ठीप्रयोगो दृश्यते, तथापि गुरुत्वादावेवाSत्वव्यधिकरणत्वम्, अन्यत्र क्लृप्तत्वात्, इदंत्वसंवलितत्वाच्च ; न तु ज्ञानादावित्यत्र तात्पर्यम् ॥ ८३ ॥
मन्वयमहं प्रत्ययो न प्रत्यक्षरूपः, इन्द्रियत्वेनेन्द्रियजन्यज्ञानस्यैव प्रत्यक्षत्वात्, अत एवाऽऽत्मापि कथं प्रत्यक्षव्यपदेशभाग्, प्रत्यक्षज्ञानविषयतयैव विषयस्य प्रत्यक्षत्वव्यपदेशात् ? । स्वातिरिक्तज्ञानं विनाऽप्यपरोक्षत्वेन प्रतिभासनात् प्रत्यक्ष आत्मेति चेत् । किं तत् ?, स्वप्रतीतौ व्यापारो वा, चिद्रूपस्य सत्ता वा ? । नाऽऽयः, कर्मणीव स्वात्मनि व्यापारानुपलम्भात् । न द्वितीयः, स्वतः प्रकाशाsयोगात् । अत एव न स्वसंविदितज्ञानविषयत्वेनापि तथात्वम्, तदसिद्धेः ; सिद्धौ वा प्रमाणान्तरप्रसङ्गात् । अथ सर्वज्ञानानां 'घटमहं जानामि' इत्याद्याकारत्वात् प्रत्यक्षेणैव स्वविषयत्वसिद्धिरिति चेत् । न तत्र ज्ञाने घटविषयत्वग्रहेऽपि स्वस्य ज्ञानविषयत्वाग्रहात् स्वस्य स्वाविषयत्वेन स्वविषयत्वाऽविषयत्वात्, अन्यथा 'घटज्ञानज्ञानवान्' इत्याकारप्रसङ्गात् ।
१ तत्- स्वसंविदितज्ञानं, तस्य । २ 'स्वसंविदितज्ञानस्य' इति शेषः ।
Jain Education Intentional
For Private & Personal Use Only
oooooo
सटीकः ।
॥ ४४ ॥
www.jainelibrary.org