SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ PPRPOORIORRIOR तईि प्रत्यक्षस्यापि चक्षुरादेरपि, तत्सद्भावाऽविशेषतो भ्रमजनकत्वाविशेषात् , तत् प्रमाणत्वं त्याज्यम् । अथ प्रत्यक्षाभासं द्विचन्द्रादिप्रत्यक्षं, व्यभिचारि विसंवादिव्यवहारजनकम् , अन्यत् सत्यघटादिप्रत्यक्षभिन्न, तत् साधु प्रारूपं, न । तथा च न भ्रमाजनकत्वलक्षणं प्रामाण्यमभिमतं, किन्तु प्रमाजनकत्वम् । तच्च घटादिप्रमाजननादक्षतमित्याशय इति चेत् ॥ ८१ ॥ अहंप्रत्ययपक्षेपि ननु सर्वमिदं समम्। अतस्तद्वदसौ मुख्यः सम्यक्प्रत्यक्षमिष्यताम् ॥८॥ 'ननु' इत्याक्षेपे, इदं सर्व-प्राक्प्रकटितमाकूतम् , अहंप्रत्ययपक्षेऽपि समम् , असत्याप्रत्ययपरित्यागेन सत्याहंप्रत्ययमादाय प्रमाणत्वाविरोधात् , दुष्टा-ऽदुष्टकारणजन्यत्वेन प्रत्ययद्वैविध्यात् । अतः प्रमाणग्राह्यत्वाद् नाऽलीकत्वमात्मनः, किन्तु पारमार्थिकत्वमिति व्यञ्जयति । अत उक्तसाम्यात् , तद्वत सत्यघटप्रत्ययवत् , असौं- 'अहं जाने' इत्यादिप्रत्ययः, मुख्यः सब्यवहारजनकः, सम्यमत्यक्षं प्रत्यक्षप्रमाणरूपः, इष्यताम्- अङ्गीक्रियताम् ॥ ८२॥ ननु 'अहं जाने' इत्यादिप्रत्ययस्य न भ्रान्तत्वम् , 'अहं गुरुः' इति प्रत्ययस्य च भ्रान्तत्वम् , इत्यत्र किं विनिगमकम् ?, इत्यत आह गुर्वी मे तनुरित्यादौ भेदप्रत्ययदर्शनात्।भ्रान्तताभिमतस्यैवास्य युक्ता नेतरस्य तु ॥८३॥ मामला १ ख, ग, घ. च. 'माणरू' । २ क. 'मारू' । ३ मूलपुस्तके 'स्यैव सा यु' इति पाठः । Jain Education L a For Private Personel Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy