________________
सटीकः।
शास्त्रवार्ता- ॥४३॥
य॑भिचाराद् नार्थाभावसाधकत्वम् । अथ संनिकृष्टेऽधिकरणे पुत्रायत्यन्ताभावग्रहेऽपि तद्ध्वंसाग्रहाद् न शोक इति चेत् । तथापि पुत्राद्युपलम्भहेतुचक्षुराद्यनुपलम्भेन तदभावात् पुत्राद्यनुपलम्भेन परावृत्तस्य तस्य मूढता स्यात् । तदिदमुक्तम्- "खगृहाद् निर्गतो भूयो न तदाऽऽगन्तुमर्हति" इति । अथ चक्षुरादिसंभावनाद् न तदनुपलब्ध्या तदभावसिद्धिरिति चेत् । तर्यात्मनोऽपि संभावनासत्वाद् न तदनुपलब्ध्या तदभावसिद्धिरिति परिभावनीयम् ॥ ७९ ॥
उक्तप्रत्ययो न प्रमा, इत्याशङ्कतेभ्रान्तोऽहं गुरुरित्येष सत्यमन्यस्त्वसौ मतः। व्यभिचारित्वतो नास्यगमकत्वमथोच्यते॥८॥
'अहं गुरुः' इत्येष प्रत्ययो भ्रान्तः, गुरुत्वानाश्रयेऽहत्ववत्यात्मनि गुरुत्वावगाहनात् । यद्यपि घटस्येव कदाचिद् भ्रमविषयत्वेऽप्यात्मनो नानुपपत्तिः, तथापि तत्पत्ययाभावे प्रमाणाग्राह्यत्वादसत्ख्यातिग्राह्यत्वेनालीकत्वमस्येत्यभिमानः । तत्रोच्यते- सत्यम् , उक्तमत्ययो भ्रान्त एवं तु पुनः, असौ प्रारूपोऽहंप्रत्ययः, अन्यः- 'अहं गुरुः' इत्याद्यतिरिक्तः 'अहं जाने, अहं सुखी' इत्यादिरूपः, मतोऽङ्गीकृतः। अथाऽस्य- अहंप्रत्ययजनकोपयोगस्य, व्यभिचारित्वतो भ्रमजनकत्वात् , गमकत्वं प्रमाणत्वं नेति । उच्यते ॥ ८॥ प्रत्यक्षस्यापि तत्त्याज्यं तत्सद्भावाविशेषतः। प्रत्यक्षाभासमन्यच्चेद्व्यभिचारि नसाधु तत्॥८
१ क. 'नासत्त्वाद्' । २ क. 'प्रमाभा' । ३ ख. ग. घ. 'व पु' । ४ ख. ग. प. च. 'माणरू' ।
Sreek
॥४३॥
JainEducation ints
For Private
Personel Use Only