________________
शरीरधर्मानुविधायित्वात् , युवशरीरे तथादर्शनात् , अनुगतकार्मणशरीरसिद्ध्या तज्जन्यभोगाश्रयस्य परलोकित्वसिद्धेः । न च घटे घटजन्यत्वस्येव शरीरे शरीरजन्यत्वस्यापि न नियम इति वाच्यम् , आत्मनः क्रियावत्वेन चेष्टारूपतक्रियानियामकशरीरत्वस्याऽऽद्यशरीरहेतुकर्माण स्वीकारादिति ॥ ७८ ॥
____ अत्राह परःसतोऽस्य किं घटस्येव प्रत्यक्षेण न दर्शनम् । अस्त्येव दर्शनं स्पष्टमहंप्रत्ययवेदनात्॥७९॥
सतो भावरूपस्याऽऽत्मनः सतः, घटस्येव प्रत्यक्षेण दर्शनं किं न भवति ?, तथा चाऽनुपलब्ध्याऽभाव एव तस्येत्याशयः । तत्राऽनुपलब्धिरेव नास्तीति समाधत्ते- स्पष्टं साक्षात् , अहंप्रत्ययस्य वेदनात्- अनुभवसिद्धत्वात् , अस्त्येव दर्शनम् । न चेदं न प्रत्यक्षमिति वाच्यम् , व्याप्त्यादिप्रतिसंधानविरहेऽपि जायमानत्वात् , आत्मत्वविशिष्टस्याऽयोग्यत्वे साध्या प्रसिद्ध्याऽनुमानासंभवाच्च । एतेन 'तत्राऽऽत्मा तावत् प्रत्यक्षतो न गृह्यते' इति न्यायभाष्योक्तमप्यपास्तम् । ननु यद्येवमात्मा प्रत्यक्षः, कथं तर्हि तत्र शरीराभेदबुद्धिः, धर्मिस्वरूपस्य शरीरभेदस्याऽपि ग्रहात ?, इति चेत् । न धर्म्यम्, तद्भावेन तद्ग्रहेऽपि शरीरभेदप्रकारकग्रहाभावात् तदभेदबुद्ध्युपपत्तेः; इति नानुपलब्ध्याऽऽत्माभावनिश्चयः । न च चक्षुराद्यनुपलब्ध्या तदभावः, वाय्वादेरप्यभावप्रसङ्गात् । न चाऽनुपलब्धिमात्रस्यार्थाभावसाधकत्वम् , अन्यथा खगृहाद् निर्गतो वराकचार्वाको न गृहमासादयेत् , पुत्रादिभिस्तददृष्ट्या तदभावसिद्धेः, प्रत्युत पुत्र-धनाद्यभावावधारणाच्छोकविकलो बहु विक्रोशेत् । तदा पुत्रादिसचे चाऽनुपलब्धे
Jain Education Intervie
For Private Personal Use Only
TAsiww.jainelibrary.org