SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ सटीकः। शास्त्रवार्ता कन्दलीकारस्तु- 'आरोपितं नीलं रूप तमः' इत्याह । तन्न, नीलीद्रव्योपरक्तेषु वस्त्र-चर्मादिषु तमोव्यवहारप्रसङ्गात् , | "गुणे शुक्लादयः पुसि" (अम०को०१,५,१७) इत्यनुशासनेन शुक्लादिपदजन्यशुक्लत्वाद्यवच्छिन्नमुख्यविशेष्यताकशाब्दबोधे पुंलि॥४२॥ - कशुक्लादिपदशक्तिज्ञानजन्योपस्थितेर्हेतुत्वेन 'नीलस्तमः' इति प्रयोगप्रसङ्गाच्च । न चात्र नीलस्य तमोविशेषणत्वमेव, अनुक्तलिङ्गविशेषणपदानां च विशेष्यलिङ्गताया औत्सर्गिकत्वाद् नीलपदे क्लीवत्वमिति वाच्यम् । नीलस्य सामान्यतया विशेष्यत्वात् , विशेषणविशेष्यभावे कामचाराभिधानस्य परस्परव्यभिचारितदुभयविषयत्वादिति दिग् । 'नीलारोपविशिष्टस्तेजःसंसर्गाभावस्तमः' इति शिवादित्यः । तदपि न, नीलारोपायग्रहेऽपि तमस्त्वग्रहात , तादृशतमस्त्वावच्छिन्नधर्मिकनीलारोपायोगाच्चेति । अधिकं वादमालायाम् । इमां गिरं समाकर्ण्य सकर्णा जाङ्गुलीमिव । उद्वमन्तु सुखं ध्वान्ते (ना)ऽत्राभावत्वभ्रमं विषम् ॥ १॥ तस्माद् न जायते किञ्चिदेकान्ताद् न च नश्यति । प्रसिद्धं निखिलार्थानां त्रैलक्षण्यं हि लक्षणम् ॥२॥७७॥ उपसंहरमाहएवं चैतन्यवानात्मा सिद्धः सततभावतः । परलोक्यपि विज्ञेयो युक्तमार्गानुसारिभिः।७८ एवमुक्तयुक्त्या, चैतन्यवान् ज्ञानोपादानम् , आत्मा शरीरभिन्नः, सिद्धः । स च सततभावतः- अनादिनिधनत्वात् , | परलोक्यपि युक्तमार्गानुसारिभिः- उपपत्तिसहिताऽऽगमानुगृहीतमतिभिः, विज्ञेयः, आधचैत्रशरीरधर्माणामव्यवहितपूर्ववर्तिचैत्र ४२॥ SRO Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy