________________
SPICARRIOR
" तमः खलु चलं नीलं, परा-ऽपरविभागवत् । इतरद्रव्यवैधाद् नवभ्यो भेत्तुमर्हति ॥१॥" इति ।
'तमो द्रव्यं, घनतर-निकर-लहरीप्रभृतिशब्दैर्व्यपदिश्यमानत्वात् , किरणादिवत्' इत्यपि वदन्ति' । 'नावाऽऽलोकः किन्त्वन्धकारः' इति व्यवहारादप्यालोकाभावाद् भिन्नं तमः, 'नाऽत्र घटः किन्तु तदभावः' इतिवद् विवरणपरतां विनाऽपि खारसिकप्रयोगदर्शनात् , अपकृष्टाऽऽलोकसत्त्वेऽप्यन्धकारव्यवहाराच्च । अत एवोत्कृष्टालोकाभावोऽन्धकार इति चेत् । न, तदुत्कर्षप्रतियोग्यपकर्पशालितयैव तमसि द्रव्यत्वसिद्धेः । 'तमःप्रतियोगिकाभावेनैव तेजोव्यवहारः, तत्र तत्तत्तेजोज्ञानं प्रतिबन्धकम्' इति शेषानन्तवचनं त्वत्यनादरणीयम् , स्पष्टगौरवात् , व्यवहर्तव्यज्ञाने सति, सत्यां चेच्छायां व्यवहारेऽधिकानपेक्षणाचेति दिग् ।
प्राभाकरास्तु- तेजोज्ञानाभाव एव तमः, नीलं तम इति धीस्तु स्मृतनीलिम्ना सममालोकज्ञानाभावस्यासंसर्गाग्रहात् । अत एवाऽऽलोकवद् गर्भगृहं प्रविशतः प्रथममालोकाग्रहे 'नीलं तमः' इति धीः, तदुक्तम्- “ अप्रतीतावेव प्रतीतिभ्रमो मन्दानाम्" इत्याहुः । तदप्यसत् , 'तमः पश्यामि' इति प्रतीत्या तमसश्चाक्षुषत्वात् : ज्ञानाभावस्य चाऽतथात्वात् । निमीलितनयनस्य च न तमःप्रतीतिरस्ति, किन्त्वर्थान्तरप्रतीतिरेव, अन्यथा 'गेहे तमोऽस्ति, नवा ?' इति संशयानुपपत्तेः; गर्भगृहे च तमःप्रत्ययो | भ्रम एव, आलोकज्ञानप्रतिबन्धकदोषस्य तत्र स्वीकारावश्यकत्वादिति दिए ।
रत्नाकरावतारिकायां द्वितीयपरिच्छेदे तमोवादे श्रीरनप्रभसूरयः' इति शेषः ।
Jain Educa
www.jainelibrary.org
For Private Personal use only
t ional