________________
S
VION
शास्त्रवार्ता
सटीकः।
॥४१॥
saree
कारः, तत्र राशिष्विव किश्चित्समुदायिव्यतिरेकप्रयुक्त एव विनाशः, एवमुत्पत्तिप्रत्ययोऽप्यूह्यः' इति शशधरशर्मणो वचनं रमणीयम् , राशिषु बहुत्वविशेषनाशो-त्पादाभ्यां तदाश्रयनाशो-त्पादप्रतीत्युपपत्तावपि प्रकृते तदयोगात् , समूहविलक्षणमहदेकोत्पादाद्यनुभवाच्च । अपिच, एवं 'इदं नालं' इत्यादिधियां भ्रमत्वं, तत्र 'नेदं नीलं' इत्यादिसाक्षात्कारे वस्तुस्वरूपस्याऽदृष्टविशेषस्य वा दोषस्य वा प्रतिबन्धकत्वम् , तत्राऽप्यप्रामाण्यग्रहाभावविशिष्टतेजोऽभावत्वप्रकारकज्ञानादीनामुत्तेजकत्वं कल्पनीयम् , इत्यतिगौरवम् ।
__यत्तु 'तमसो द्रव्यत्वे प्रौढालोकमध्ये सर्वतो घनतरावरणे तमो न स्यात् , तेजोऽवयवेन तत्र तमोऽवयवानां प्रागनवस्थानात् , सर्वतस्तेजःसंकुले वाऽन्यतोऽप्यागमनासंभवात्' इति वर्धमानेनोक्तम् । तदसत् , 'यद् द्रव्यं यद्र्व्यध्वंसजन्यं तत्तदुपादानोपादेयम्' इति व्याप्तेस्तेजोऽणुभिरेव तत्रान्धकारारम्भस्वीकारात् । न च 'तेजसस्तेजस एवाऽऽरम्भकत्वादयुक्तमेतत्' इति वाच्यम् , नियताऽऽरम्भनिरासादिति दिग् ।
एवं तमसोऽभावत्वे गतिमत्त्व-परत्वा-ऽपरत्व-विभागादिप्रत्ययानामप्यनुपपत्तिः। न च स्वाभाविकगतेराश्रयगत्यनुविधाननियमानुपपत्तिः, पद्मरागप्रभायां तथादर्शनात् , कुड्याद्यावरणभङ्गे तनियमभङ्गस्य च प्रभायामिव च्छायादावपि तुल्यत्वात् । तदिदमुक्तम्
१ क. 'स्य प्र' । २ तेजोऽणुभिरन्धकारारम्भस्वीकरणम् ।
Jain Education Inter
For Private & Personel Use Only
EOw.jainelibrary.org