________________
| न्याय्यम् । एतेन 'यावदालोकसत्त्वेनान्धकारव्यवहारस्तावनिष्ठबहुत्वविशेषावच्छिन्नप्रतियोगिताकाभावस्तमः' इत्यप्यपास्तम् , बहुत्वस्य बुद्धिविशेषादिना विनिगमनाविरहाच्च 'अखण्डाभाव एव तमः, अखण्डं वा तमस्त्वम्' इति कल्पयतस्त्वतिरिक्ततमोद्रव्यकल्पने किं झूयते ।।
अपिच, तमसोऽभावत्वे उत्कर्षा-ऽपकर्षाऽसंभवादन्धतमसा-ऽवतमसादिविशेषोऽपि न स्यात् । न च मह-दुद्भूता-ऽनभिभूतरूपवद्यावत्तेजोऽभावोऽन्धतमसम् , कतिपयतदभावश्चावतमसम् , इत्यादिविभागोन्याय्यः, दिवा प्रकृष्टालोकेऽपि तत्सत्त्वात् । न च च्छायायामतिव्याप्तिवारणाय 'स्वन्यूनसंख्यबाह्यालोकसंवलने सति' इति विशेषणदानाऽऽवश्यकत्वात् , तदानीं च बाह्यालोकस्य स्वाधिकसंख्यत्वाद् न दोष इति वाच्यम् । तदिनातिरिक्ताऽनन्तदिनवृत्तिबाह्यालोकाभावानामेवाऽधिकत्वात् , तादृशरूपाप्रतिसन्धानेऽप्यन्धतमसत्वाद्यनुभवाच्च । एतेन 'रूपत्वग्राहकतेजःसंवलितस्तदवान्तरविशेषग्राहकयावत्तेजःसंसर्गाभावोऽवतमसम् , रूपत्वावान्तरजातिग्राहकतेजःसंवलितः प्रौढप्रकाशकयावत्तेजःसंसर्गाभावश्छाया, यावदालोकाभावश्चान्धतमसम्' इति निरस्तम् , ज्ञानगभेतयाऽवतमसादीनामचाक्षुषत्वप्रसङ्गात् , तादृशजात्यसिद्ध्या तत्तज्ज्ञानविशेषपरिचायितजातिविशेषविशिष्टालोकनिवेशासंभवाचेति दिग् ।
किञ्च, अत्यन्ताभावत्वे तमस उत्पत्ति-नाशादिप्रतीतीनां भ्रमत्वं स्यात् । न च 'आलोकसंसर्गाभावसमुदाय एवाऽन्ध
EASEARCH
१ क. 'इति वि'।
Jain Education Interational
For Private & Personel Use Only
www.jainelibrary.org