SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्ता - 1| 80 || मर्शयोः सच्चे बाघधी विऽप्यनुमित्यापत्तेः, तद्धर्म (तद्धर्म) व्याप्यव्यापकधर्मावच्छिन्नयत्किञ्चिद्व्यक्तिनिष्ठकार्यतानिरूपित- ' इत्याद्युक्तौ गौरवात्, 'घटत्वादिविशिष्टवैशिष्ट्यविषयक प्रत्यक्षत्वस्याऽभावलौकिकप्रत्यक्षत्वव्याप्यतत्तदभावलौकिकप्रत्यक्षत्वव्याकत्वात् प्रकृतसिद्धेश्व-' इत्युक्तावपि न साध्यसिद्धिः ; न वा घटत्वाद्यवच्छिन्नप्रकारत्वा ऽतिरिक्तप्रकारत्वानवच्छिन्नाऽभावत्वलौकिकविषयतावच्छिन्नाऽभावलौकिकविषयताकमत्यक्षे, घटत्वातिरिक्तधर्मावच्छिन्नप्रतियोगितासंबन्धावच्छिन्नप्रकारत्वा निरूपितत्वे सत्यऽभावत्वविषयत्वावच्छिन्नाऽभाव लौकिक विषयताकप्रत्यक्षे वा घटत्वाद्यवच्छिन्नप्रकारताकज्ञानहेतुत्वेऽपि निर्वाहः, तमोविषयतायास्तमस्त्वविषयताऽवच्छिन्नत्वे ऽभावत्व विषयतावच्छिन्नत्वनियमात् तमस्त्वस्य तेजोऽभावत्वानतिरिक्तत्वात्, अभावत्वविषयतावच्छिन्ननिवेशे गौरवात् तमसो द्रव्यत्वस्यैव युक्तत्वादिति दिक् । किञ्च, नissलोकप्रतियोगि काभावमात्रं तमोव्यवहारविषयः, एकालोकवत्यप्यालोकान्तराभावात् ; न वाऽऽलोकसामान्याभावः, आलोकवत्यपि संबन्धान्तरेण तदभावात् न च संयोगसंबन्धावच्छिन्नतदभावः, आलोकेऽपि तत्सच्वात्, नाsप्यालोकान्यवृत्तित्वविशिष्टतदभावः, अन्धकारेऽन्धकारापत्तेः न चाऽऽलोकान्यद्रव्यवृत्तित्वविशिष्टः से तथाँ त्वदात्मन्यपि तत्प्रसङ्गात् ; न च कदाचिदालोकसंसर्गात्वत्तित्वविशिष्टः से तथा, कदाप्यालोकसंसर्गे यत्र नास्ति तत्रापि घोरनरकाद तच्छ्रवणात्, अवतमसे यावदालोकाभावाच्च । किञ्च, एतावद्धटकाप्रतिसंधानेऽपि तमस्त्वप्रतिसंधानाद् घटत्ववज्जातिरूपमेव तद् Jain Education International १. ' तमोव्यवहारविषयः' इति संबध्यते । २ आलोकाभावः । ३ तमोव्यवहारविषयः 1. For Private & Personal Use Only सटीकः । ॥ ४० ॥ www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy