________________
विच्छिन्नत्वेन प्रतियोगिताया विशेषणाद् न दोषः, अभावत्वनिर्विकल्पकं चाङ्गीक्रियत एव, निरवच्छिन्नप्रकारताकबुद्धौ | निरवच्छिन्नविषयताकबुद्धेर्हेतुत्वादिति चेत् ।
न, एवमपि घटाभाव-पटाभावयोरुभयोः संनिकर्षे घटाभावांशे प्रतियोगिविशेषितस्य, पटाभावांशे च तदविशेषितस्य समूहालम्बनस्य प्रसङ्गात् । किश्च, एवमिदंत्वादिनाऽभावप्रत्यक्षं न स्यात् , न स्याच्च 'अभावप्रतियोगी घटः, इत्यादि । तादृशप्रत्यक्षेष्वपि पृथकारणत्वकल्पने चातिगोरवम् । अथाभावत्वप्रकारकघटाद्यभावत्वविषयकप्रत्यक्षे घटत्वादिना घटादिज्ञानस्य हेतुत्वम् , पटाभावत्वेन च भूतले न घटाभावादिज्ञानम् , तत्र पटाभावस्यैवाऽऽरोपात , इत्यालोकज्ञानं विनापीदंत्वेन तमःप्रत्यक्ष नानुपपन्नमिति चेत् । न, 'घटवद् भूतलम्' इति ज्ञानोत्तरं 'अभाववद् भूतलम्' इति ज्ञानप्रसङ्गात् , तादृशाऽसंसर्गाऽग्रहस्याऽऽपादकस्य सत्वात् । किञ्च, एवमभावप्रत्यक्षे प्रतियोगिज्ञानापेक्षायां विना प्रतियोगिज्ञानं, जायमानं तमस्त्वप्रकारकं तमःप्रत्यक्ष तमसो भावत्वमेव साधयतीति प्रतिकूलाभिधानमिदं देवानांपियस्य ।
एवं चाऽभावलौकिकप्रत्यक्षस्य घटत्वाद्यन्यतमत्वविशिष्टविषबकत्वनियमाद् विशेषसामग्री विना सामान्यसामग्रीमात्रात् कार्यानुत्पत्ते ऽभावनिर्विकल्पकं, 'न' इत्याकारकप्रत्यक्षं वा, विशेषणादिज्ञानरूपविशेषसामग्रयभावात् । न चाऽभावलौकिकप्रत्यक्षत्व-घटत्वादिविशिष्टविषयकप्रत्यक्षत्वयोप्प्य-व्यापकभावाभावात् कथं विशेषसामग्रीत्वम् ? इति वाच्यम् । कार्यतावच्छेदकीभूततद्धर्माश्रययत्किश्चियक्तिनिष्ठकार्यतानिरूपितकारणतावच्छेदकं यावत्प्रत्येकं तत्तदवच्छिन्नसत्वेऽवश्यं तद्धर्माचच्छिन्नोत्पत्तिरित्येवं नियमात् ; 'तद्धर्मव्याप्यधर्मावच्छिन्नयत्किश्चिद्व्यक्तिनिष्ठकार्यतानिरूपित-' इत्यायुक्तौ व्याप्तिज्ञान-परा
SERIES
Jain Education
AON
anal
For Private & Personel Use Only
www.jainelibrary.org