________________
"चोदना जनिता बुद्धिः प्रमाणं दोषवर्जितैः । कारणैर्जन्यमानत्वालिङ्गाप्तोक्त्यक्षबुद्धिवत् ॥" है इति श्लोकोक्तस्तर्कस्तत्प्रतिद्वन्द्विना
"चोदनाजनिता बुद्धिरप्रमा गुणवर्जितैः । कारणैर्जन्यमानत्वादलिङ्गाप्तोक्तबुद्धिवत् ॥" इत्यनेन निरस्यमाणः; यथा वा
"दोषाः सन्ति न सन्तीति पौरुषेयेषु चिन्त्यते । वेदे कर्तुरभावात्तु दोषाशकैव नास्ति नः ॥" इत्ययमपि
"गुणाः सन्ति न सन्तीति पौरुषेयेषु चिन्त्यते । वेदे कर्तुरभावात्तु गुणाशदैव नास्ति नः ॥" इत्यनेन प्रतिहन्यमानः । इत्यलं बहुना प्रसङ्गेन ।
१ कर्तृपुरुषाश्रयगुणदोषनिबन्धने हि शब्दधियः प्रामाण्याप्रामाण्ये जगति विनिश्चिते, इति कर्प्रभावे वेदे तबुद्धेः कथमिव प्रामाण्यं भवेत् ! इति प्रेयस्य परिजिहीर्षया तत्र पुरुषकर्तृकत्वाभावेन तदाश्रयदोषाणामपि निराधाराणामनवस्थितेर्दोषाभावनिमित्तं खतस्तत्प्रामाण्यमभिवाञ्छता कुमारिलभद्देन तत्साधनाय पद्यमिदमभिहितम्। एतच प्रतिवादिभिः सुगतसुतादिभिर्वेदे कर्तृपुरुषव्यावृत्तौ तदाश्रयगुणानामप्यभावेन गुणाभावकारणकमप्रामाण्यमासञ्जितवद्भिस्तमेव श्लोकं प्रतिकूलतर्केणोपस्कृत्य निराक तम् । एवं "दोषाः सन्ति." इत्येतदपि "गुणाः सन्ति." इत्यनेन; "दोषाभाव एव गुणः" इति च "गुणाभाव एव दोषः" इत्येतेन; "गुणानामेव संसारेऽसत्वम्" इति च “दोषाणामेव सर्वथाऽभावः" इत्यमुना तत्समानतां बिभ्रता, "भावान्तरविनिर्मुक्तः" इति भवस्यैवोक्त्यातिशयं पुष्णता च प्रतिपक्षतर्केण प्रविक्षिप्यमाणम् ।
२ आप्तोक्तस्यापि नमाऽन्वयः।
Jain Educatio
n
al
For Private & Personel Use Only
Urjainelibrary.org