SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ २ शा०स० ****-*- प्रस्ता० ॥३॥ EHRESE ASE अस्मिंश्च ग्रन्थे स्वतन्त्रदर्शनप्रवर्तकत्वेन तत्समुत्तेजकत्वेन वा प्रसिद्धानमून् प्रबन्धनिबन्धून् नामानि ग्राहं निरदिक्षद् प्रन्थकारः; - (१) कपिलः (सांख्यदर्शनादिपुरुषः) स्त० ३, श्लो० ४४।। (२) जैमिनिः (मीमांसादर्शनाविर्भावकः ) स्त० ८, श्लो० ३३। । (३) धर्मकीर्तिः (न्यायवादितया ख्यातो न्यायवार्तिकादिकर्ता उडुरो बौद्धाचार्यः ) स्त०१०, लो० २४ । (४) बुद्धः (ताथागतशासनजनकः) स्त० ६, ५१, ५३; स्त० ११, १८ । (५) बृहस्पतिः (चार्वाकमतप्रवर्तयिता) स्त०१, श्लो० १११ । (६) मनुः (स्मृतिविशेषकर्ता ऋषिः) स्त० ३, १६ । (७) व्यासः ( अष्टादशपुराणीप्रणायकतया विश्रुतो महर्षिः) स्त. १, ७५, ११, ४७ । प्रन्थस्यास्य दर्शनविषयत्वात् , तत्रापि च पद्यबद्धसंदर्भत्वाद् निसर्गापतितं काठिन्यम् , इति स्वभ्यस्तवतामप्यपरनिबन्धान् नातिव्युत्पन्नप्रज्ञानां जनानामथ च संक्षेपतस्तदर्थाधिगममाकाङ्क्षतां स्वाभीप्सितनिष्पत्तये स्वल्पमपि सहकारिणमन्तरेण नान्यः कश्चन सरलः पन्था इति विज्ञाय परहितनिरतो ग्रन्थकारस्तदुपकारकरणवासितान्तःकरणः स्वयमेव पदार्थमात्रावबोधिनी लघीयसी टीकामपि निर्ममे, या स्तोकेनैव कालेनास्यैव ग्रन्थस्य द्वितीयविभागरूपेण प्रकटीभविष्यन्ती प्रभविष्यति तदवलोकनमनोरथरथस्थितान् कृतार्थयितुमार्थिकान् कृतिनः । । सत्त्वेऽपि तस्या दिमात्रप्रदर्शनप्रवणत्वात् , मुलग्रन्थस्य पुनरेतस्येदृशासदृशश्लाघनीयपद्धतिप्रतिबद्धत्वेन कर्कशतर्कसंपर्काङ्कितत्वेन चातिसूक्ष्मगभीराशयपरिपूर्णत्वाद् याथार्थेन भावार्थमात्मसाच्चिकीर्षन्तोऽपि सन्तो न समर्थीभवन्ति संपादयितुमात्मीयाभिमतमर्थम् , इत्युपचिकीर्षमाणस्तान् COACHCREAK Jain Education themational djainelibrary.org For Private & Personal Use Only
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy