SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ ज्ञानस्याऽभावप्रत्यक्षाहेतुत्वे विना प्रतियोगिज्ञानं 'न' इत्याकारकप्रत्ययापत्तेः। न चाऽभावत्वस्यापीदत्वेन ग्रहादापादकाभावः, प्रथममभावा-ऽभावत्वयोनिर्विकल्पके 'अभाव-' इत्याकारकप्रत्यक्षापत्तेदुर्वारत्वात् । न चाभावत्वमात्रेण प्रत्यक्षस्येष्टत्वम् , 'शून्यमिदं दृश्यते' इत्यादिप्रत्ययात् , इत्थमेवाऽभावत्वस्य भावभेदस्य पिशाचादिभेदवद् योग्यस्य 'घटो नास्ति' इत्यादौ स्वरूपतो भानमपि प्राचां संभवदुक्तिकम् , नजुल्लेखस्तु प्रतियोगिवाचकपदनियतो न सार्वत्रिक इति वाच्यम् : अन्धकार इव इदादावपि 'शून्य| मिदम्' इति वह्नयभावादौ प्रत्ययापत्तेः । 'अभावत्वप्रत्यक्षे योग्यधर्मावच्छिन्नज्ञानत्वेन हेतुत्वाद् नाऽयं दोषः' इत्यतिमन्दम् , योग्यधर्माणामननुगतत्वात् । घटत्वाद्यन्यतमत्वेनानुगमे गौरवात् , पिशाचत्वाद्ययोग्यधर्मावच्छिन्नस्य ग्रहेऽपि 'पिशाचो नाऽयम्' इत्यादिप्रतीतेश्च। अथ 'न' इत्याकारकप्रत्यक्षवारणायेन्द्रियसंबद्धविशेषणताया एवं प्रतियोगिविशेषितप्रत्यक्षहेतुत्वम् । न चेन्द्रियस्य चक्षु-स्त्वगादिभेदभिन्नत्वेनेन्द्रियसंबद्धविशेषणतायाः प्रतियोगिविशेषितप्रत्यक्षहेतुत्वे गौरवात् पृथक् प्रतियोगिधीहेतुतैव युक्ता । न च तद्धेतुत्वेऽपि 'न' इत्याकारकप्रत्यक्षापत्तिः, उपस्थितस्य प्रतियोगिनोऽभावे वैशिष्ट्यभाने बाधकाभावात् । न च 'अभावो न घटीयः' इत्यादिवाधधीदशायां तदापत्तिः, अभावत्वावच्छेदेनाऽभावे तादृशबाधधिय आर्णत्वात् ; अभावत्वसा मानाधिकरण्येन च तद्दशायामपि प्रतियोगिवैशिष्ट्यभानसंभवात् । न च प्रतियोगितासंवन्धावच्छिन्नप्रतियोगितयाऽभावे घटKB वैशिष्ट्यविषयकत्वात् , प्रतियोगितासामान्येन घटवाधग्रहाभावेऽपि संयोगादिसंबन्धावच्छिन्नप्रतियोगितया 'न घटीयः' इति । . ! 'इति वाच्यम्' इत्यत्र संबन्धः । Jain Education in a For Private & Personel Use Only KDalwww.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy