________________
दुद्भूता-ऽनभिभूतरूपवदालोकसंयोगत्वेन तद्धेतुत्वात् । न चैकावच्छेदेनाऽऽलोकसंयोगवत्यपरावच्छेदेन चक्षुःसंयोगाचाक्षुषापत्तिः, चक्षुःसंयोगावच्छेदकावच्छिन्नालोकसंयोगत्वेन तद्धेतुत्वात् । न च चक्षुःसंयोगावच्छेदकावच्छिन्नालोकसंयोगत्वेन, आलोकसंयोगावच्छेदकावच्छिन्नचक्षुःसंयोगत्वेन वा हेतुत्वमिनि विनिगमनाविरहः, उद्योतस्थपुरुषस्यान्धकारस्थवस्तुसाक्षात्काराऽनुददयस्य विनिगमकत्वात् । आलोकसंयोगानवच्छेदकानवच्छिन्नचक्षुःसंयोगत्वेनापि न हेतुत्वम् , गौरवात् , अन्धकारस्थस्योद्यो तस्थवस्त्वग्रहणप्रसङ्गाच्च । अत एव समवायनाऽऽलोकाभावाऽन्यलौकिकचाक्षुषं प्रति स्वावच्छेदकावच्छिन्नसंयोगवच्चक्षुःसंयुक्तमनःप्रतियोगिकविजातीयसंयोगसंबन्धेनाऽऽलोकसंयोगस्य हेतुत्वमपि न निरवद्यम् , संबन्धगौरवात् , किश्चिदवयवावच्छेदेनाऽऽलोकसंयुक्तेनैव चक्षुषाऽन्धकारवद्भित्तिसंयोगेऽन्धकारेऽपि वस्तुग्रहणप्रसङ्गाञ्चः इति चेत् ।
न, आलोकं विनापि घूकादीनां द्रव्यचाक्षुषोदयाद् व्यभिचारात् । न च चैत्रादिचाक्षुष एंव तद्धेतुत्वाद् न व्यभिचार इति वाच्यम् । तथाऽप्यञ्जनादिसंस्कृतचक्षुषां तस्करादीनां चाक्षुषे व्यभिचारात् । न चाऽञ्जनाद्यसंस्कृतचैत्रादिचक्षुर्जन्यचाक्षुषे तद्धेतुत्वम् , अञ्जनादीनामपि च स्वातन्त्र्येण चाक्षुषहेतुत्वमिति वाच्यम् : अननुगमात् , आलोकायुरोध्यक्षयोपशमरूपयोग्यताया एवाऽनुगतत्वेन हेतुत्वौचित्यात् । किश्च, एवं चक्षुषोऽवच्छेदकत्वेनाऽहेतुत्वापत्तिः । अपि च, चक्षुःसंयोगावच्छिन्नसंयोगसंबन्धेनैवाऽऽलोकत्वेन हेतुता वाच्या, लाघवात् न च तेन संबन्धेनाऽऽलोकस्याऽऽलोकवृत्तित्वम् , इत्यालोक एव व्यभिचारः, इति
MARIRAMPIONSHIPPIRORRECEIVEDIO
१ तच्छन्दश्चाक्षुषपरामर्शकः । २ क, 'हा' । ३ क. 'एवैत' । ४ तत्पदमालोकानुकर्षकम् ।
SB
Jan Educa
For Private Personel Use Only
www.jainelibrary.org