________________
शास्त्रवार्ता॥३७॥
सटीकः।
PICS
__ अथ तमसो जन्यत्वे स्पर्शवदवयवारभ्यत्वं स्यादिति चेत् । न, तमसः स्पर्शवदवयवत्वस्येष्टत्वात , शक्क्याख्यस्याऽति- शयस्यैव द्रव्यजनकत्वाच्च । त्वयाऽपि च न स्पर्शवत्वेन जनकत्वं कल्पयितुं शक्यम् , अन्त्यावयविनि व्यभिचारात् । न चाऽनन्त्यावयवित्वमपि निवेशनीयम् , तस्य द्रव्यसमवायिकारणत्वपर्यवसितत्वात् । न च जन्यद्रव्यत्वावच्छिन्नं प्रति द्रव्यत्वेन प्रतिबन्धकत्वादन्त्यावयविनि द्रव्यानुत्पत्तेर्न दोष इति वाच्यम् । तथापि नव्यैश्चक्षुरादिष्वनुद्भूतस्पर्शानभ्युपगमात् , तथाऽहेतुत्वात् । न च द्रव्यारम्भकत्वान्यथानुपपत्त्यैव तत्राऽनुद्भूतस्पर्शाङ्गीकार इति वाच्यम् । अनन्तानुद्भूतस्पर्शकल्पनामपेक्ष्य लघुभूतैकजातिकल्पनाया एवोचितत्वात् । न च मूर्तत्वेन तथात्वम् , मनसि व्यभिचारात् । न च तंत्र विजातीयसंयोगरूपहेत्वन्तराभावादेव द्रव्यानुत्पत्तिरिति वाच्यम् । यत्क्रियया घटे आरम्भको मनसि चानारम्भकः संयोगो जनितस्तत्क्रियाजन्यतावच्छेदाय तत्रोक्तजात्याऽऽवश्यकत्वात् । न च मनोऽन्यमूर्तत्वेन तेथात्वम् , गौरवात् । एवं च तादृशजातिकल्पने, विजातीयसंयोगकल्पने, नोदनात्वादीनां तद्वैनात्यव्याप्यत्वकल्पने, तदवच्छिन्नकारणकल्पने च गौरवाद् वरमतिशय एवाऽनतिप्रसक्तो द्रव्यजनकः कल्प्यते, इति मूक्ष्म विभावनीयम् । . अथ तमसो द्रव्यत्वे आलोकनिरपेक्षचक्षुह्यत्वं न स्यात् , द्रव्यचाक्षुषत्वावच्छिन्नं प्रत्यालोकसंयोगत्वेन हेतुत्वात् । न चाऽऽलोकचाक्षुषे व्यभिचारः, तत्राऽप्यालोक-गगनसंयोगस्य सत्त्वात् । न चैवं बहलतमे तमसि सुवर्णसाक्षात्कारापति, मह
वैशेषिकेण। २जनकत्वं कवयितुं शक्यम् । ३ मनसि । ४ व्यचाक्षुषत्वावच्छिन्नं प्रत्या लोकसंयोगत्वेन हेतुत्वे । ५ सुवणस्य तैजसत्वेन वैशेषिकैरङ्गीकारादिति भावः ।
DOO
॥३७॥
Join Education Intemanona
For Private
Personel Use Only
RAriainelibrary.org