SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ Jain Education Intern इति वाच्यम् चक्षु-धूमसंयोगत्वेनैवाऽश्रुपातजनकत्वाद् धूमे उद्भूतस्पर्शासिद्धेः, नीलित्रसरेणौ व्यभिचाराच्च । न च पाटितपटसूक्ष्मावयव इव तत्राप्युद्भूत स्पर्शवत्त्वानुमानम्, अनुद्भूतरूपस्योद्भूतरूपजनकताया इवानुद्भूत स्पर्शस्याऽपि निमित्तभेदसंसर्गेणोद्भूत स्पर्शजनकतासंभवाद् दृष्टान्ताऽसंप्रतिपत्तेः । अपि च, त्रसरेणोरुद्भूतस्पर्शवत्वे तत्स्पर्शस्पार्शनप्रसङ्गः । महत्त्वविशेषाभावाद् ने, इति चेत् । न, एकत्वविशेषाभावेन विनिगमनाविरहात्, आश्रयत्वाचाभावस्य द्रव्यान्यसत्त्वा (च) च । प्रतिबन्धकत्वाद् नै, इति चेत् । न, उद्भूतस्पर्शाभावस्यैव तत्प्रतिबन्धकत्वेन तत्रानुद्भूतत्वकल्पनौचित्यात् । वस्तुतः प्रभा-घटसंयोगादौ पराभिमतजातिस्थानीयत्व ग्राह्यतास्वभावादेव न त्वाचत्वम् इति नैतादृशप्रतिबन्धकत्वकल्पनमपि । ' तमसि पवनाभिव्यज्यमानः शीतस्पर्शोऽप्यनुभूयत एव, अत उद्भूतस्पर्शवत्त्वमपि तंत्र' इति सांप्रदायिकः । अथ नीलरूपवच्चे तमसः पृथिवीत्वापत्तिः, नीलत्वावच्छिनं प्रति पृथिवीत्वेन हेतुत्वादिति चेत् । न, मैम स्वभावविशेषस्यैव विशिष्टनीलनियामकत्वात्, तैवाऽप्यवयवनीलादिनैवाऽवयविनि नीलानुपपत्तौ पृथिवीत्वेन तत्समवायिकारणताभावात् जन्यसन्मात्रसमवायिकारणतावच्छेदकीभूतद्रव्यत्वाभावादेव नीलादौ नीलाद्यनुत्पत्तिनिर्वाहात् । अथ नीलजनकविजातीयतेजः संयोगस्य जादावपि संभवात् नीलानुत्पत्तये नीलत्वावच्छिन्नं प्रति पृथिवीत्वेन हेतुत्वं कल्प्यत इति चेत् । न, तथाप्युपस्थितविजातीय नीलत्वावच्छिन्नं प्रत्येव तद्धेतुत्वौचित्यात् : व्यापकधर्मस्य व्याप्यधर्मेणाऽन्यथासिद्धेः । १ नीत्रिसरेणी । २ 'तत्स्पर्श स्वादीनप्रसङ्गः' इति संबध्यते । ३ तमसि । ४ श्रीरत्नप्रभाचार्यादयो रत्नाकरावतारिकादावित्यर्थः । ५ क. 'लरूपत्वा' । ६ जैनस्य । ७ कणः दुमतानुयायिनः । For Private & Personal Use Only रान v.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy