________________
सटीकः।
शास्त्रवाता- इदमेवाऽपरेऽपि वदन्ति॥ ३६॥ नाभावो भावमाप्नोति शशशृङ्गे तथाऽगतेः।भावो नाभावमेतीह, दीपश्चेन्न स सवथा ॥७॥
नाऽभावस्तुच्छो भावमामोति- पारमार्थिकत्वं प्रतिपद्यते, शशशृङ्गे तथाऽगतेः- भावत्वेनाऽपरिच्छेदात् । भावोऽपि पारमार्थिकः, इह जगति, अभावं तुच्छस्वभावं, नैति । ननु दीपो भावरूपः, स चाऽऽलोकाभावात्मकान्धकारखरूपतां प्रतिपद्यत इति चेत् । स दीपस्यान्धकारपरिणामः, सर्वथाऽभावरूपो न, भास्वरपरिणामपरित्यागेऽपि द्रव्यत्वापरित्यागात् । तेजसोऽतिविनिवृत्तिरूपता स्वीकृता तमसि या कणाशिना । द्रव्यता वयममी समीक्षिणस्तत्र पत्रमवलम्ब्य चक्ष्महे ॥१॥
तमो द्रव्यं, रूपवत्वात् , घटवत् । न च हेत्वसिद्धिः, 'तमो नीलम्' इति प्रतीतेः सार्वजनीनत्वात् । न चासो भ्रमः, बाधकाभावात् । न चोद्भूतरूपमुद्भूतस्पर्शव्याप्यम् , इत्युद्भूतरूपवत्वे उद्भूतस्पर्शापत्तिर्वाधिका, इन्द्रनीलप्रभासहचरितनीलभागस्तु स्मर्यमाणारोपणैव तत्पभायां नीलधीनिर्वाहाद् गौरवादेव न कल्प्यत इति तत्र न व्यभिचारः, कुङ्कमादिपूरितस्फटिकभाण्डे बहिरारोप्यमाणपीताश्रयेऽपि न व्यभिचारः, तत्रापि मर्यमाणारोपेणैव पीतधीनिर्वाहाद् बहिष्पीतद्रव्याकल्पनात् , बहिर्गन्धोपलब्धेस्तु वाय्वाकृष्टानुद्भूतरूपभागान्तरेणैवोपपत्तेरिति वाच्यम् : मानाभावात् , प्रभायां व्यभिचाराच्च । न चोद्भूतनीलरूपवत्त्वमेवोद्भूतस्पर्शव्याप्यम् , न च धूमे व्यभिचारः, तत्राऽप्युद्भूतस्पर्शवत्त्वात् , अत एव तत्संबन्धाच्चक्षुषो जलनिपात
विनिवृत्तिरभावः । २ कणादेन । ३ अस्य ' इति वाच्यं ' इति पर्यन्ते संबन्धः । ४ तन धूमे।
HOTO
For Private Personal use only
www.jainelibrary.org