SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्ता- सटीकः । ॥३५| समये, घटविशिष्टमृदुत्पादसमये वा न तद्विनाशः, अनुत्पत्तिप्रसक्तः। नापि तद्विनाशसमये तदुत्पत्तिः, अविनाशमसक्तेः। न च तत्प्रादुर्भावसमय एव तत्स्थितिः, तद्रूपेणाऽवस्थितस्याऽनवस्थाप्रसक्त्या प्रादुर्भावायोगात् । अतो द्रव्यादर्थान्तरभूतास्ते, अनेकरूपाणामेकद्रव्यरूपत्वायोगात् । भिन्नमतियोगिनिरूपितत्वेन, तैद्विशिष्टद्रव्यनिरूपितत्वेन वाभिन्नकालता; यथा- कुशूलतद्विशिष्टमन्नाश-घटतद्विशिष्टमृदुत्पाद-मृत्स्थितीनाम् । अत एकरूप्येण द्रव्यादनन्तरभूतत्वम् । इति संप्रदायः। - अत्रेदं विविच्यते- उत्पादादय आधारत्वादिवदतिरिक्ता अपि, न त्वाद्यक्षणसंबन्धादिरूपा एव, क्षण एवाऽभावात् । तेषां च घटत्वादिना प्रतियोगित्वम् , मृत्त्वादिना चाऽनुयोगित्वम् , इति 'मृदि घट उत्पन्नः' इत्यादिधीः । द्रव्ये तु पर्यायोपहितरूपेण प्रतियोगित्वं, तत्र चाऽनुयोगितायाः प्रतियोगिन्येव समावेशाद् द्रव्यस्य नाऽनुयोगित्वम् , यथा- 'घटविशिष्टं मृद्द्रव्यमुत्पन्नम्' इति । न चात्र विशेषणस्यैवोत्पादो विषयः, विशिष्टस्यैव प्रतियोगित्वानुभवात् : इतरत्रान्वितस्य घटस्योत्पादेऽन्वयायोगाच्च । न च विशिष्टहेतुकल्पने गौरवम् , घटहेतूनामेव घटविशिष्टहेतुत्वात् । अत एव क्षणहेतूनामेव क्षणविशिष्टहेतुत्वात् सर्वत्राविशिष्टवैससिकोत्पादसिद्धिः । न चैवं 'ज्ञानमुत्पन्नम्' इतिवत् 'आत्मोत्पन्नः' इति व्यवहारः स्यात् , आत्मत्वेनोत्पादापतियोगित्वे तु 'कम्बुग्रीवादिमानुत्पन्नः' इत्यपि न स्यात् , इति वाच्यम् : गुरुरूपस्याऽपि प्रकारताद्यवच्छेदकत्ववदुत्पादादिप्रतियोगितावच्छेदकत्वात् । अत एव नित्यानित्यत्वव्यवहारयोरप्यसांकर्यम् । नन्वेवं 'परमाणुनित्यः' इति व्यवहारोऽपि भ्रान्तः तस्य घटस्य । २ ते उत्पाद-स्थिति-विगमाः । ३ तदा भिन्नप्रतियोगी । । उत्पादादनिाम् । ५ विशिष्टहेतुकल्पनादेव । | ६ वैनविकः स्वाभाविकः । ७ विशिष्टहेतुकल्पने। ८ इतः प्रभृति प्रसङ्गात् ' इति पर्यन्तः पूर्वपक्षः। AIMAHARASHARE Jain Education For Private & Personel Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy