________________
शरीरवृद्धि-विकारयोश्चैतन्यवृद्धि-विकारसंभवाच । इन्द्रियाण्येवाऽऽत्माऽस्तु, इति चेत् । न, मिलितानां 'तेषां ज्ञानाद्याश्रयत्वे
चक्षुरादिशून्यस्याऽपि त्वाचाधप्रसङ्गात् । चक्षुश्चाक्षुषस्येव, त्वगादि च त्वाचादेरेवाऽऽश्यः, इति चेत् । तर्हि 'योऽहं स्पृशामि कि सोऽहं पश्यामि' इतिप्रतीत्यनुपपत्तिः, चक्षुषा दृष्टस्य वस्तुनश्चक्षुर्नाशेऽन्येन स्मरणानुपपत्तिश्च । 'चक्षुरादिजन्यनानाज्ञानाधिष्ठान[7 मेकमेव नित्यमिन्द्रियम्' इत्यभ्युपगमे तु संज्ञामात्र एव विवादै इति दिग् ॥ ७४ ॥
नन्वनुपादानं चैतन्यमस्तु, किमात्मना ?, इत्यत आहन तथाभाविनं हेतुमन्तरेणोपजायते।किञ्चिद् नश्यति चैकान्ताद् यथाह व्यासमहर्षिः॥७॥
तथाभाविनं कार्यरूपतया भवनशील, हेतुं विना किमपि न जायते, तत्परिणामकृतद्रव्यावस्थाविशेषरूपत्वात् तत्परिणामोत्पादस्य । न चैकान्ताद् द्रव्यपृथग्भावेन किश्चिद् नश्यति, तत्परिणामोत्तरद्रव्यावस्थारूपत्वात् तद्विनाशस्य । न चैवं द्रव्यमेव स्यात्, न तूत्पाद-विनाशौ, कथञ्चिद्भिन्नत्वस्याऽपीष्टत्वात् । तदिदमुक्तं सम्मतौ
"तिणि वि उप्पायाई अभिन्नकाला य भिन्नकाला य । अत्यंतरं अणत्यंतरं च दवियाहि णायव्वा ॥१॥" अत्रैकमतियोगिनिरूपितत्वेन, तद्विशिष्टद्रव्यनिरूपितत्वेन वोत्पाद-स्थिति-विगमानां भिन्नकालता, यथा घटोत्पाद। इन्द्रियाणाम् । २ त्वाचं स्पार्शनम् । ३ तादृशाधिष्ठानस्यैवाऽऽहंतमते आत्मपदार्थत्वादिति भावः । ५ तच्छब्देनोपादानम् । ५ त्रयोऽप्युत्पादादयोऽभिन्नकालाच भिन्नकालाच | अर्थान्तरमनान्तरं च द्रव्येभ्यो ज्ञातव्याः॥1॥ ६ सम्मतिसूत्रे गाथा १३२ ।
Jain Education Intem
For Private & Personel Use Only
mmjainelibrary.org