________________
ललितवि० कल्याणचक्षुषीव सद्रूपदर्शनं, न पत्र प्रतिबन्धो नियमेन ऋते कालादिति निपुणसमयविदः, अयं पं० युता. ॥४०॥
चाप्रतिबन्ध एव, तथा तद्भवनोपयोगित्वात् , तमन्तरेण तसिद्धयसिद्धेः, विशिष्टस्योपादानहेतोरेव | "कल्याणचक्षुषीव” निरुपहतायामिव दृष्टौ "सद्रूपदर्शन" सतः-सद्भूतस्य रूपस्य दर्शनम्--अवलोकनं, नतु काचकामलाद्युपहत इव चक्षुषि अन्यथेति, एतदेव भावयति-"नहि" नैव "अत्र" मार्गानुसारिश्रद्धासाध्यदर्शने "प्रतिबन्धो” विष्कम्भो “नियमेन" अवश्यंभावेन कुतश्चिदिति गम्यते, किं सर्वथा ? नेत्याह-"ऋते" विना, कालात् , काल एव ह्यत्र प्रतिबन्धक इतिभावः “इति" एवं “निपुणसमयविदो" निश्चयनयव्यवहारिणो ब्रुवते, ननु कालेऽपि प्रतिबन्धके कथमुच्यते-'न पत्र प्रतिबन्धो नियमेने त्याह-"अयंच" कालप्रतिबन्धः अप्रतिबन्ध एव, कुत इत्याह-"तथेति" दर्शनरूपतया तस्याः-श्रद्धाया भवनं-परिणमनं तद्भवनं तत्रोपयोगित्वात्-व्यापारवत्त्वात् कालस्य, व्यतिरेकमाह"तं" कालम् "अन्तरेण" विना "तत्सिद्ध्यसिद्धेः” तस्य-दर्शनस्य स्वभावलाभानिष्पत्तेः, कुत इत्याह--"विशिष्टस्य" विचित्रसहकारिकारणाहितस्वभावातिशयस्य "उपादानहेतोरेव" परिणामिकारणस्यैव ला तथापरिणतिस्वभावत्वात् , तदेषाऽवन्ध्यबीजभूता धर्मकल्पद्रुमस्येति परिभावनीयं । इयं चेह चक्षु18| रिद्रियं चोक्तवद्भगवद्भय इति चक्षुर्ददतीति चक्षुर्दाः १६॥ तथा 'मग्गदयाणं' इह मार्गः-चेतसोऽवक्र-10
0000@@@@@@
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org