________________
यत इन्द्रियत्वेन सामान्यत इत्थं चक्षुः तत्-तस्माद् “अत्र" सूत्रे चक्षुर्विशिष्टमेव, न सामान्यम् , "आत्मधर्मरूपम्" उपयोगविशेषतया जीवस्वभावभूतं, विशेष्यमेवाह
तत्त्वावबोधनिबन्धनश्रद्धास्वभावं गृह्यते, श्रद्धाविहीनस्याचक्षुष्मत इव रूपमिव तत्त्वदर्शनायोगात् , शन चेयं मार्गानुसारिणी सुखमवाप्यते, सत्यां चास्यां भवत्येतन्नियोगतः
___ तत्त्वावबोधनिबन्धन-जीवादिपदार्थप्रतीतिकारणं या श्रद्धा-रुचिः-धर्मप्रशंसादिरूपा, सा स्वभावो लक्षणं यस्य | तत्तथा "गृह्यते” अङ्गीक्रियते । ननु ज्ञानावरणादिक्षयोपशम एव चक्षुष्टया वक्तुं युक्तः, तस्यैव दर्शनहेतुत्वात् , न तु मिथ्यात्वमोहक्षयोपशमसाध्या तत्त्वरूचिरूपा श्रद्धेत्याशङ्कयाह-"श्रद्धाविहीनस्य' तत्त्वरुचिरहितस्य "अचक्षुष्मत इव" अन्धस्येव "रूपमिव" नीलादिवर्ण इव यत्तत्त्वं-जीवादिलक्षणं तस्य दर्शनम्--अवलोकनं तस्यायोगाद्--अनुपपत्तेः, भवत्वेवं, तथाऽप्यसावन्यहेतुसाध्या स्यान्न भगवत्प्रसादसाध्येत्याह-"न च” नैव "इयं" तत्त्वरुचिरूपा श्रद्धा मार्ग-सम्यग्दर्शनादिकं मुक्तिपथमनुकूलतया सरति-गच्छतीत्येवंशीला मार्गानुसारिणी, "सुखम्" अपरिक्लेशं यथा कथञ्चिदवाप्यते इत्यर्थः, भवतु भगवत्प्रसादसाध्येयं, परं स्वसाध्यं प्रति न नियतो हेतुभावोऽस्याः स्यादित्याह- "सत्यां च" विद्यमा| नायां च “अस्याम्" उक्तरूपश्रद्धायां "भवति" जायते "एतत्" तत्त्वदर्शनं "नियोगतः" अवश्यंभावेन, निदर्शनमाह
१ज्ञानावरणक्ष० प्र० २ भगवत्कृतानुग्रहं विनैव ३ पदार्थप्रतीतिं प्रति ।।
நிருருருருருரு GOGGE
*0000000000000000000
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org