SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ ललितवि० ॥ ३९ ॥ 66055 H | नावस्थितिः, अचिन्त्यशक्तियुक्तत्वमन्तरेण तथाभावेनावस्थातुमशक्यत्वात् तथाभावेनावस्थितौ च सर्वथा - सर्वप्रकारैब| जाधानादिभिः "परार्थकरणं" परहितविधानं, स्वयं तथारूपगुणशून्येन परेषु गुणाधानस्याशक्यत्वात् "भगवद्भ्य एव" न स्वतो नाप्यन्येभ्यः " इति" एवकारार्थः ॥ चक्षुः " बाह्यनिर्वृत्तिसाधकतमकरणरूपमिति" बाह्या - बहिर्वत्तिन्युपलक्ष| णत्वाच्चास्या अभ्यन्तरा च निर्वृत्तिः -- वक्ष्यमाणरूपा साधकतमं करणं च -- उपकरणेन्द्रियं ततस्ते रूपं यस्य तत्तथा “निर्वृत्त्युपकरणे द्रव्येन्द्रिय" ( तत्त्वार्थे अ० २ सू० १७ ) मितिवचनात् भावेन्द्रियं तु क्षयोपशम उपयोगश्च, "लब्ध्युपयोगौ भावेन्द्रिय” ( तत्त्वार्थे अ० २ सू० १८ ) मितिवचनात् तदत्र चक्षुः - वि | शिष्टमेवात्मधर्मरूपं " Jain Education International पं० युता. “निर्वृत्त्युपकरणेत्यादि” सूत्रद्वयाभिप्रायोऽयं - इहेन्दनादिन्द्रो जीवः सर्वविषयोपलब्धिभोगलक्षणपरमैश्वर्ययोगात्, तस्य लिङ्गमिन्द्रिय श्रोत्रादि, तच्चतुर्विधं -- नामादिभेदात् तत्र नामस्थापने सुज्ञाने, निर्वृत्त्युपकरणे द्रव्येन्द्रियं लब्धुपयोगौ भावेन्द्रियं तत्र निर्वृत्तिराकारः, सा च बाह्या अभ्यन्तरा च तत्र बाह्या अनेकप्रकारा, अभ्यन्तरा पुनः क्रमेण श्रोत्रादीनां कदम्बपुष्प १ धान्यमसूरा २ ऽतिमुक्तकपुष्पचन्द्रिका ३ क्षुरप्र ४ नानाकारसंस्थाना ५, उपकरणेन्द्रियं - विषयग्रहणे समर्थ, छेद्यच्छेदने खड्गस्येव धारा, यस्मिन्नुपहते निर्वृत्तिसद्भावेऽपि विषयं ॥ ३९ ॥ न गृह्णातीति, लब्धीन्द्रियं -- यस्तदावरणक्षयोपशमः, उपयोगेन्द्रियं -- यः स्वविषये ज्ञानव्यापार इति, “तदित्यादि” १ निर्वृति० एवमग्रेऽपि १ अनन्यसाध्यसाधकत्वमिन्द्रियत्वं ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy