SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ 20000000ॐॐॐॐ000000000 "भवनिर्वदेत्यादि" भवनिर्वेदः-संसारोद्वेगो यथा--"कायः संनिहितापायः, सम्पदः पदमापदाम् । समागमाः सापगमाः, सर्वमुत्पादि भङ्गरम् ॥ १॥" एवंचिन्तालक्षणः स एव द्वारम्-उपायस्तेन भगवन्तस्तथा तथा सत्त्वकल्याणहेतवः All इत्युत्तरेण सम्बन्धः, कथमित्याह-“अर्थतः" तत्त्ववृत्त्या "भगवद्बहुमानादेव' अर्हत्पक्षपातादेव, भवनिर्वेदस्यैव भगद्वहुमानत्वात् , ततः किमित्याह-"विशिष्टकर्मक्षयोपशमभावाद" विशिष्टस्य-मिथ्यात्वमोहादेः कर्मणः क्षयोपशमः-- उक्तरूपस्तद्भावात् , ततोऽपि किमित्याह-"अभयादिधर्मसिद्धेः" अभयचक्षुर्गिशरणादिधर्मभावात् , व्यतिरेकमाह-- तयतिरेकेण" अभयादिधर्मसिद्ध्यभावेन "नैःश्रेयसधर्मासम्भवात् निःश्रेयसफलानां सम्यग्दर्शनादिधर्माणामघटनात् "भगवन्त एव" अहंलक्षणाः"तथा तथा" अभयदानादिप्रकारेण"सत्त्वकल्याणहेतवः"सम्यक्त्वादिकुशलपरम्पराकारणमिति अभयदयाणमित्यादिसूत्रपञ्चकं, इह भयं सप्तधा-इहपरलोकाऽऽदानाकस्मादाजीवमरणाश्लाघाभेदेन, एतत्प्रतिपक्षतोऽभैयमिति | "इहेत्यादि" इहपरलोकादानाकस्मादाजीवमरणाश्लाघाभेदेन-इहपरलोकादिभिरुपाधिभिर्भेदो-विशेषस्तेन, तत्र मनुप्यादिकस्य सजातीयादेरन्यस्मान्मनुष्यादेरेव सकाशाद्यद्भयं तदिहलोकभयं, इहाधिकृतभीतिमतो भावलोक इहलोकः | ततो भयमितिव्युत्पत्तिः, तथा विजातीयात्तिर्यग्देवादेः सकाशान्मनुष्यादीनां यद्यं तत्परलोकभयं, आदीयत इत्या|दानं, तदर्थं चौरादिभ्यो यद्भयं तदादानभयं, अकस्मादेव-बाह्यनिमित्तानपेक्षं गृहादिष्वेव स्थितस्य राज्यादौ भयमकस्मा १ इहलोक०२०क्षता अभय० Jain Education inemalior For Private & Personel Use Only "www.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy