________________
ललितवि०
।
00000000000
अतो ज्ञानयोग्यतैवेह प्रद्योतनमन्यापेक्षयेति, तदेवं स्तवेष्वपि एवमेव वाचकप्रवृत्तिरितिस्थितम् । ५० युता. एतेन "स्तवेऽपुष्कलशब्दः प्रत्यवायाय” इति प्रत्युक्तं, तत्त्वेनेदृशस्यापुष्कलत्वायोगादिति लोक-21 प्रद्योतकराः १४ । एवं लोकोत्तमतया लोकनाथभावतो लोकहितत्वसिद्धेर्लोकप्रदीपभावात् लोकप्रद्योतकरत्वेन परार्थकरणात् स्तोतव्यसम्पद एव सामान्येनोपयोगसम्पदिति ४॥ ___अतो" भावसाधनप्रद्योतासम्भवादचेतनेषु धर्मास्तिकायादिषु "ज्ञानयोग्यतैव” श्रुतज्ञानज्ञातृव्यापाररूपं ज्ञानं प्रति विषयभावपरिणतिरेव "इह" अचेतनेषु “प्रद्योतनं" प्रकाशः “अन्यापेक्षया" तत्स्वरूपप्रकाशकमाप्तवचनमपेक्ष्येति, यथा किल प्रदीपप्रभादिकं प्रकाशकमपेक्ष्य चक्षुष्मतो द्रष्टुर्घटादेदृश्यस्य दर्शनविषयभावपरिणतिरेव प्रकाशस्तथेहापि योज्यमिति, नतु श्रुतावरणक्षयोपशमलक्षण इति । “एतेनेति" एतेन लोकोत्तमादिपदपञ्चकेन "अपुष्कलशब्द इति" सम्पूर्णलोकरूढस्वार्थानभिधायकः, “तत्त्वेनेत्यादि", तत्त्वेन-वास्तवीं स्तवैनवृत्तिमाश्रित्य "ईदृशस्य" विभागेन प्रवृत्तस्य लोकशब्दस्य सम्पूर्णस्वार्थानभिधानेऽपि “अपुष्कलत्वायोगात्" न्यूनत्वाघटनात् , लोकरूढस्वार्थापेक्षया तुयुज्येताप्यपुष्कलत्वमिति तत्त्वग्रहणम् ॥ साम्प्रतं भवनिर्वेदद्वारेणार्थतो भगवहहमानादेव विशिष्टकर्मक्षयोपशमभावाद अभयादिधर्मसिद्धिस्तव्यतिरेकेण नैःश्रेयसधासम्भवाद् भगवन्त एव तथा तथा सत्त्वकल्याणहेतव इति प्रतिपादयन्नाह
१०ज्ञानलक्षणज्ञा०प्र०२ स्तवनीयवृ० प्र०
000000000000000
॥ ३७॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org