________________
ललितवि०
sách các
रोधात्" अतुल्यदर्शनकरणे तस्य-एकस्वभावस्यापरद्रष्ट्रसहकारिणस्तत्त्वं-प्रथमद्रष्टुसहकारित्वं पराभ्युपगतं तस्य विरोधाद- पं० युता. | अपरद्रष्ट्रसहकारित्वेनैव निराकृतेः “इति" एतत् “भावनीयम्” अस्य भावना कार्या, कारणभेदपूर्वको हि निश्चयतः कार्य-का भेदः, ततोऽविशिष्टादपि हेतोर्विशिष्टकार्योत्पत्त्यभ्युपगमे जगत्प्रतीतं कारणवैचित्र्यं व्यर्थमेव स्यात्, कार्यकारणनियमो वाऽव्यवस्थितः स्यात्, तथाचोक्तम्-"नाकारणं भवेत्कार्य, नान्यकारणकारणम् । अन्यथा न व्यवस्था स्यात्कार्यकारणयोः क्वचित् ॥१॥"भावनिका स्वयमप्याह-"इतरेतरापेक्षो" "हिः" यस्मादर्थे इतरः-कारणवस्तुस्वभाव इतर कार्यवस्तुस्वभावश्च कारणवस्तुस्वभावमपेक्षते-आश्रयते इतरेतरापेक्षः __वस्तुस्वभावः, तदायत्ता च फलसिद्धिरिति, उत्कृष्टचतुर्दशपूर्वविल्लोकमेवाधिकृत्य प्रद्योतकरा इति-18 लोकप्रद्योतकराः १४ | "वस्तुस्वभावः” कार्यकारणरूपपदार्थस्वतत्त्वं, ततः किमित्याह-"तदायत्ता च” कार्यापेक्षकारणस्वभावायत्ता च "फलसिद्धिः" कार्यनिष्पत्तिः, यादृक् प्रकाशरूपः कारणस्वभावस्तादृक् दर्शनरूपं कार्यमुत्पद्यते इतिभावः, "इति" अस्मात्प्रकाश| भेदेन दर्शनभेदाद्धेतोः “उत्कृष्टचतुर्दशपूर्वविल्लोकमेव"नान्यान् षट्स्थानहीनश्रुतलब्धीनधिकृत्य-आश्रित्य प्रद्योतकरा इति। |एवं चेदमापन्नं यदुत-भगवत्प्रज्ञापनाप्रद्योतप्रतिपन्ननिखिलाभिलाप्यभावकलापा गणधरा एवोत्कृष्टचतुर्दशपूर्वविदः,
१ दर्शनरूपवस्तुस्वभावं २ प्रकर्षप्रकाशशक्तिरूपवस्तुस्वभावं
नि000000000000
các
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org