________________
0000000000000000000
तेषामपि परस्परं षट्स्थानपतितत्वश्रवणात्, न चायं सर्वथा प्रकाशाभेदे, अभिन्नो ह्येकान्तेनैक-18 स्वभावः, तन्नास्य दर्शनभेदहेतुतेति, स हि येन स्वभावेनैकस्य __ "तेषामपि" चतुर्दशपूर्वविदामपि, किं पुनरन्येषामसकलश्रुतग्रन्थानामित्यपिशब्दार्थः, "परस्परम्” अन्योऽन्यं “षट्स्थानश्रवणात्" पण्णां वृद्धिस्थानानां हानिस्थानानां चानन्तभागासंख्येयभागसङ्खयेयभागसंख्येयगुणासङ्खयेयगुणानन्तगुणलक्षणानां शास्त्र उपलम्भात्, यद्येवं ततः किमित्याह-"न चाय" महान्दर्शनभेदः "सर्वथा प्रकाशाभेदे" एकाकार एव श्रुतावरणादिक्षयोपशमलक्षणे प्रकाशे इत्यर्थः, एतदेव भावयति-"अभिन्नो" नानारूपो "हिः” यस्मादू "एकान्तेन" नियमवृत्त्या “एकस्वभावः" एकरूपः प्रकाश इति प्रकृतं, एकान्तेनैकस्वभावे हि प्रकाशे द्वितीयादिस्वभावाभाव इतिभावः, का प्रयोजनमाह-"तत्" तस्मादेकस्वभावत्वात् न “अस्य” प्रकाशस्य "दर्शनभेदहेतुता" दृश्यवस्तुप्रतीतिविशेषनिबन्धनता, 16 एतदेव भावयति-स हि प्रकाशो येन “स्वभावेन" आत्मगतेन “एकस्य" द्रष्टुः
सहकारी तत्तुल्यमेव दर्शनमकुर्वन्न तेनैवापरस्य, तत्तत्त्वविरोधादिति भावनीयं, इतरेतरापेक्षो हि || "सहकारी" सहायो दर्शनक्रियायां साध्यायां “तत्तुल्यमेव” प्रथमद्रष्टुसममेव “दर्शन” वस्तुबोधम् "अकुर्वन्" अविद-16 धानो, न “तेनैव” प्रथमद्रष्ट्रसहकारिस्वभावेन "अपरस्य” द्वितीयस्य द्रष्टुः सहकारीतिगम्यते । कुत इत्याह-"तत्तत्त्ववि
१ षट्स्थानश्रवणादिति पञ्जिका.
00000000000000000000
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org