SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ ललितवि० भव्यानामप्यालोकमात्रस्य वचनांशुभ्योऽभावादित्याह-"तदभावे” तथादर्शनाभावे "व्यर्थः” अकिञ्चित्करस्तेषामालोकः पं० युता. स आलोक एव न भवति, स्वकार्यकारिण एव वस्तुत्वात् "इतिवचनात्” एवंभूतश्रुतप्रामाण्यात्, "तथापि" एवमपि “अत्र" सूत्रे "लोकध्वनिना" लोकशब्देन "उत्कृष्टमतिः” औत्पत्तिक्यादिविशिष्टबुद्धिमान् गणधरपदप्रायोग्य इत्यर्थः भव्यसत्त्वलोक एव गृह्यते, तत्रैव तत्त्वतः प्रद्योतकरणशीलत्वोपपत्तेः, अस्ति च चतुर्दशपूर्वविदामपि स्वस्थाने महान् दर्शनभेदः, "भव्यसत्त्वलोक एव" न पुनरन्यो, यो हि प्रथमसमवसरण एव भगवदुपन्यस्तमातृकापदत्रयश्रवणात् प्रद्योतप्रवृत्ती दृष्टसमस्ताभिलाप्यरूपप्रद्योत्यजीवादिसप्ततत्त्वो रचितसकलश्रुतग्रन्थः सपदि सञ्जायते स इह गृह्यते इति । कुत एतदेव10 मित्याह-"तत्रैव" उत्कृष्टमतावेव भव्यलोके, "तत्त्वतो" निश्चयवृत्त्या “प्रद्योतकरणशीलत्वोपपत्तेः" उप्पन्ने इ वा १ विगमे 01 |इ वा २ धुवे इ वा ३ इतिपदत्रयोपन्यासेन प्रद्योतस्य-प्रकृष्टप्रकाशरूपस्य तच्छीलतया विधानघटनात्, भगवतां प्रद्योतकसशक्तेस्तत्रैव भव्यलोके कात्स्न्येनोपयोग इतिकृत्वा, अमुमेवार्थ समर्थयन्नाह-"अस्ति" वर्त्तते, चकारः पूर्वोक्तार्थभावनार्थः, चतुर्दशपूर्व विदामपि, आस्तां तदितरेषामित्यपिशब्दार्थः, "स्वस्थाने" चतुर्दशपूर्वलब्धिलक्षणे "महान्"बृहन् “दर्शनभेदो" दृश्यप्रतीतिविशेषः, कुत इत्याह 000000000000000000000 ॥३५॥ Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy