SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ "तदन्यथाकरणे तत्तत्त्वायोगादिति” तस्य-जीवादिवस्तुस्वभावस्यान्यथाकरणे-अस्वभावकरणे भगवद्भिः “तत्तत्त्वायोगात्" तस्य-वस्तुस्वभावस्य स्वभावत्वायोगात्"किञ्चत्यादि" किञ्चेत्यभ्युच्चये, एवमविषये असामर्थ्येनाभगवत्त्वप्रसञ्जनेऽचेतनानामपि धर्मास्तिकायादीनां, किं पुनः प्रागुक्तविपरीतलोकस्याप्रदीपत्वे इत्यपिशब्दार्थः, चेतनाऽकरणे-चैतन्यवतामविधाने समानं-तुल्यं प्राक्प्रसञ्जनेन, एतद्-अभगवत्त्वप्रसञ्जनम् “इति" अस्माद्धेतोः “एवमेव" अप्रदीपत्वप्रकारेणैव "भगवत्त्वायोग” उक्तरूपः । अभ्युपगम्यापि दूषयन्नाह-"इतरेतरकरणेऽपि” इतरस्य-जीवादेरितरकरणेऽपि-अजीवादिकरणे अपिः-अभ्युपगमार्थे स्वात्मन्यपि-स्वस्मिन्नपि तदन्यस्य-व्यतिरिक्तस्य महामिथ्यादृष्ट्यादेः विधानात्-करणात् , || नचैतदस्त्यतः “यत्किञ्चिदेतदू"अभगवत्त्वप्रसञ्जनमिति ॥“प्रक्रमादिति"आलोकशब्दवाच्यप्रद्योतोपन्यासान्यथानुपपत्तेरिति भव्यानामालोको वचनांशुभ्योऽपि दर्शनं यस्मात्। एतेषां भवति तथा तदभावे व्यर्थ आलोकः ॥१॥ ॥ इति वचनात् , तथाऽप्यत्र लोकध्वनिनोत्कृष्टमतिः __ "भव्यानामित्यादि" भव्यानां नाभव्यानामपि "आलोकः" प्रकाशः सद्दर्शनहेतुः श्रुतावरणक्षयोपशमः, इदमेवान्वय-1 व्यतिरेकाभ्यां भावयन्नाह-"वचनांशुभ्योऽपि" प्रकाशप्रधानहेतुभ्यः, किं पुनस्तदन्यहेतुभ्य इत्यपिशब्दार्थः, "दर्शन" प्रका-| श्यावलोकनं 'यस्माद्" इति हेतावेतेषां-भव्यानां "भवति" वर्तते “तथेति" यथा दृश्यं वस्तु स्थितं, ननु कथमित्थं नियमो! || १ भगवतां प्र० २ दृश्यप्रतीतिः ३ हेतुतो वाग्ज्योत्स्नातः 100000000000000000 ருருருருருருருருருருதி Jain Education Inter For Private & Personel Use Only Ww.jainelibrary.org ச
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy