________________
००००००
प्रामाण्यादिति, एवं चाचेतनेषु हितयोगोऽपि मुख्य एव कर्तृव्यापारापेक्षयेति न तत्कारणिकत्वेन स्तवविरोध इति ।
इदानीमपि तद्वचनतः प्रबोधादर्शनात् तद्भ्युपगमवतामपि तथाविधलोकदृष्ट्यनुसारप्राधान्याद्, | अनपेक्षितगुरुलाघवं तत्त्वोपलम्भशून्यप्रवृत्तिसिद्धेरिति । तदेवंभूतं लोकं प्रति भगवन्तोऽपि अप्रदीपा | एव, तत्कार्याकरणादित्युक्तमेतत्, न चैवमपि भगवतां भगवत्त्वायोगः, वस्तुस्वभावविषयत्वादेस्य, “ तदभ्युपगमेत्यादि,” तदभ्युपगमवतामपि सर्वप्रदीपा भगवन्तो न पुनर्विवक्षित संज्ञिमात्र स्यैवेत्यङ्गी कारवतामपि, न | केवलं प्रागुक्तान्धकल्पलोकस्येत्यपिशब्दार्थः, तत्त्वोपलम्भशून्यप्रवृत्तिसिद्धेरित्युत्तरेण योगः, कुत इत्याह-- " तथाविधलो|कदृष्ट्यनुसार प्राधान्यात्" तथाविधः - परमार्थतोऽसत्यपि तथारूपे वस्तुनि बहुरूढव्यवहारप्रवृत्तः स चासौ लोकश्च तथाविधलोकस्तस्य दृष्टि:-अभिप्रायो व्यवहारनय इत्यर्थः, तस्यानुसारः- अनुवृत्तिस्तस्य प्राधान्याद्, इदमुक्तं भवति - सर्वप्रदीप| त्वाभ्युपगमे भगवतां लोकव्यवहार एव प्राधान्येनाभ्युपगतो भवति, न वस्तुतत्त्वमिति, लोकव्यवहारेण हि यथा प्रदीपः प्रदीप एव, नाप्रदीपोऽपि, कटकुय्यादीनामेवाप्रदीपत्वेन रूढत्वात्, तथा भगवन्तोऽपि सर्वप्रदीपा एव, नतु केषाञ्चिदनुपयोगादप्रदीपा अपि, ऋजुसूत्रादिनिश्चयनयमतेन तु यद् यत्र नोपयुज्यते तत्तदपेक्षया न किञ्चिदेव, यथाऽऽह मङ्गलमु दिश्य भाष्यकारः - " उज्जुसुयस्स सयं संपयं च जं मंगलं तयं एकं । नाईयमणुप्पन्नं, मंगल मिट्ठे परकुकं वा ॥१॥ नाईयमणुप्पन्नं, परकीयं वा पयोयणाभावा । दिहंतो खरसिंगं, परधणमहवा जहा विहलं ॥ २ ॥ ति, ततो भगवन्तोऽपि संज्ञि१ प्रोक्तरूपश्रद्धावतामपि. २भगवतां प्रदीपत्वरूपस्तवस्य विषयो वस्तुस्वभावोऽस्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org