________________
@
@
@
@
@
@
@
कर्तरीत्यतः स्थितमेतद् यदुत-प्रकारान्तरचेष्टनस्यानिष्टत्वसिद्धिः, हितयोगविपरीतत्वात्, विषयं प्रत्यहितयोगत्वं चेति ।
नन्वेवं कथमचेतनेष्वहितयोगः, तत्साध्यस्य क्रियाफलस्यापायस्य तेषु कदाचिदप्यभावात्, यदि परमुपचरितः, तस्य चोपका चरितत्वे हितयोगोऽपि तेषु तादृश एव प्रसजति, नच स्तवे तादृशस्य प्रयोगः, सद्भूतार्थविषयत्वात् स्तवस्य, ततः कथं | | सर्वलोकहिता भगवन्त इत्याशङ्कयाह-"न" नैव "अचेतनाहितयोगः" अचेतनेषु-धर्मास्तिकायादिष्वहितयोगः-अपायहेतुर्व्यापारो मिथ्यादर्शनादिरुपचरितः-अध्यारोपितोऽग्निर्माणवक इत्यादाविवाग्नित्वम् , अत्र हेतुमाह
पुनरागमकर्मकत्वेन सचेतनस्यापि एवंविधस्यैव नायमिति दर्शनार्थः॥ "पुनरागमकर्मकत्वेन" पुनरागमनं-प्रत्यावृत्त्यं कर्तर्येवे क्रियाफलभूतापायभाजनीकरणेन कर्म यस्य स पुनरागमकर्म| कोऽचेतनाहितयोगस्तस्य भावस्तत्त्वं तेन, उपचरितोऽहितभावो नै मुख्यभावकार्यकारी, माणवकाग्नित्ववत्, अचेतनाहितयोगस्तु प्रत्यावृत्त्य स्वकर्तर्येव क्रियाफलमपायमुपरचयन्परवधाय, दुःशिक्षितस्य शस्त्रव्यापार इव तमेव नन् कथमुप-10 चरितः स्याद्?, एवं तर्हि सचेतनेष्वप्यहितयोगः पुनरागमकर्मक एव प्राप्त इति परवचनावकाशमाशङ्कयाह-"सचेतन| स्यापि" जीवास्तिकायस्येत्यर्थोऽहितयोग इति गम्यते, अचेतेनस्य त्वस्त्येवेत्यपिशब्दार्थः “एवंविधस्यैव" अचेतनसमस्यैवी | क्रियाफलभूतेनापायेन रहितस्यैवेत्यर्थो, "न" नैव 'अयं" प्रकृतोऽचेतनाहितयोग "इति" एतस्य पूर्वोक्तस्यार्थस्य दर्शनार्थः,
१ प्रत्यावृत्त्या २ कतैव ३ नोपचरितो० ४ नामुख्य० प्र० ५ सूक्ष्मविषय
@
@
@
@
@
@
@
Jain Education Inter
For Private & Personel Use Only
9@
Harjainelibrary.org