________________
@
ललितवि०
@@@@@
पं० युता.
॥३२॥
@@
@
ॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐ
“अनिष्टाप्तिहेतुत्वेन" अनिष्टं चेहाशुभं कर्म तस्याप्तिः-बन्धस्तस्या हेतुत्वेन प्रकारान्तरचेष्टायाः, अयमभिप्रायो-विपर्यस्तबोधो विपरीतप्रज्ञापनादिना चेतनेष्वचेतनेषु वाऽननुरूपं चेष्टमानोऽनुरूपचेष्टनेऽपि भाविनमपायमपरिहरनियमतोऽशुभ|कर्मणा बध्यते, परेषु त्वनिष्टाप्तिहेतुः स स्थानवेत्यनेकान्तः, अचेतनेषु न स्याच्चेतनेषु तु स्यादपीतिभावः । ननु परेष्व|हितयोगस्यानैकान्तिकत्वे कथं तत्कर्तरनिष्टाप्तिहेतुत्वमैकान्तिकं प्रकारान्तरचेष्टनस्येत्याशङ्कयाह
अनागमं पापहेतोरपि पापभावात्, इतरेतरापेक्षः कर्तृकर्मप्रकारः, नाचेतनाहितयोग उपचरितः, "अनागमम्" आगमादेशमन्तरेण "पापहेतोरपि” अयथावस्थितदर्शनादेरकुशलकर्मकारणात् “पापभावाद" अकुशलकर्मभावात्, पापहेतुकृतात्पुनः परेष्वपायात्पापभाव एवेत्यपिशब्दार्थः, अयमभिप्रायः-आगमादेशेन क्वचिदपवादे जीववधादिषु पापहेतुष्वपि प्रवृत्तस्य न पापभावः स्याद्, अन्यथा तु प्रवृत्तौ परेषु प्रत्यपायाभावेऽपि स्वप्रमाददोषभावान्नियमतः पापभाव इति तत्क रनिष्टाप्तिहेतुत्वमेकान्तिकमिति ॥ ननु चेदमपि कथं निश्चितं ? यदुत-अनागमं पापहेतोरप्यवश्य पापभाव इत्याशङ्कयाह-"इतरेतरापेक्षः" परस्पराश्रितः “कर्तृकर्मप्रकारः" कारकभेदलक्षणः, कर्ता कर्मापेक्ष्य व्यापारवान् कर्म च कर्तारमिति भावः, यथा प्रकाश्यं घटादिकमपेक्ष्य प्रकाशकः प्रदीपादिः, तस्मिंश्च प्रकाशके सति प्रकाश्यमिति, तथा विपर्यस्तबोधादिपापहेतुमान् पापकर्ता पुमानवश्यं तथाविधकार्यरूपपापभाव एव स्यात्, पापभावोऽपि तस्मिन् पाप
१ विपर्यस्तबोधः २ ०चेष्टस्य प्र०३ आगम्यन्ते यथार्थतया परिच्छिद्यन्ते पदार्था यस्मिन्नित्यागमो यथार्थबोधः तदादेशमन्तरेण अना|| गमम् ४ विपरीतबोधरूपपापकारणस्यावश्यमेव पापभावोऽस्ति ।
@@@
@@@@
॥ ३२॥
@@@
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org