SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ "इत्थमेव” अनेनैव याथात्म्यदर्शनादिप्रकारेण, तस्य-सद्भुतदर्शनादिक्रियाकर्तुः इष्टोपपत्तेः-इष्टस्य-क्रियाफलस्य चेतनेप्वचेतनेषु वा विषये क्रियायां सत्यां स्वगतस्य, चेतनविशेषेषु तु स्वपरगतस्य वा घटनाद्, इष्टमेव व्याचष्टे, "इष्टं पुनः सपरिणामम्" उत्तरोत्तरशुभफलानुबन्धि “हितं" सुखकार', प्रकृतहितयोगसाध्योऽनुग्रह इतिभावः, दृष्टान्तमाह-"स्वादुपथ्यान्नवत्" स्वादुश्च जिह्वेन्द्रियप्रीणकं पन्था इव पन्थाः-सततोल्लकनीयत्वात् भविष्यत्कालस्तत्र साधु पथ्यं च स्वादुपथ्यं तदन्नं च तद्वद् “अतिरोगिणः” अतीतप्रायरोगवतः, अभिनवे हि रोगे 'अहितं पथ्यमप्यातुरे' इतिवचनात्पथ्यानधिकार ला एवेति, 'इतिरोगिणः' इतिपाठे 'इति' एवंप्रकारः स्वादुपथ्यान्ना) यो रोगस्तद्वत इति, स्वादुग्रहणं तत्कालेऽपि सुखहेतुत्वेन | विवक्षितत्वादू, अस्वादुत्वे च पथ्यस्याप्यतथाभूतत्वान्नैकान्तेनेष्टत्वमिति, उपचारतश्च स्वादुपथ्यान्नस्येष्टत्वं, तजन्यानुग्रहस्यैवेष्टत्वाद्, यथोक्तम्-*"कजं इच्छंतेणं, अणंतरं कारणंपि इति । जह आहारजतित्ति, इच्छंतेणेह आहारो॥१॥" एवमिष्टहेतुत्वादियं क्रियाऽपि हितयोगलक्षणा इष्टा सिद्धेत्यत एव, एवं व्यतिरेकमाह अतोऽन्यथा तदनिष्टत्वसिद्धिः तत्कर्तुरनिष्टाप्तिहेतुत्वेन, "अतः” उक्तरूपात्'यो यं याथात्म्येन पश्यतीत्यादिकात् प्रकारादू'"अन्यथा" प्रकारान्तरेण चेष्टायां तदनिष्टत्वसिद्धिः" तस्याः-चेष्टाया-अनिष्टत्वम्-असुखकारित्वं तस्य सिद्धिः-निष्पत्तिः, कथमित्याह-"तत्कर्तुः" प्रकारान्तरेण चेष्टाकर्तुः, १ चेतनविषयेषु प्र. २ यथास्थितखरूपदर्शनपूर्वकप्ररूपणाजन्योपकारः ३ पथ्यान्नान) प्र. * कार्यमिच्छताऽनन्तरं कारणमपीष्ट-16 I|| मिति । यथाऽऽहारजतृप्तिमिच्छतेहाहारः ॥ १॥ 00000000000000000000 POGGGGGGஅருடு Jain Education Thematiana For Private & Personel Use Only www.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy