________________
ललित वि०
॥ ३१ ॥
99999999009999009000
स्यादितियोगः ॥ "सांव्यवहारिकादिभेदभिन्न” इति नरनारकादिर्लोकप्रसिद्धो व्यवहारः संव्यवहारस्तत्र भवाः सांव्यवहा| रिकाः, आदिशब्दात्तद्विपरीता नित्यनिगोदावस्थाः असांव्यवहारिका जीवा गृह्यन्ते, त एव भेदौ प्रकारौ ताभ्यां भिन्न इति यथावस्थितदर्शनपूर्वकं सम्यक्प्ररूपणाचेष्टया तदायत्यबाधनेनेति च, इह यो यं याथात्म्येन पश्य - ति तदनुरूप च चेष्टते भाव्यपायपरिहारसारं, स तस्मै तत्त्वतो हित इति हितार्थः,
Jain Education International
“यथावस्थितेत्यादि” यथावस्थितम् - अविपरीतं दर्शनं - वस्तुबोधः पूर्व-कारणं यत्र तत् यथावस्थितदर्शनपूर्वकं क्रियाविशेषणमेतत्, “सम्यक्प्ररूपणाचेष्टया" सम्यक्प्रज्ञापनाव्यापारेण “तदायत्यबाधनेन" तस्य - सम्यग्दर्शनपूर्वकं प्रज्ञापितस्वायतौ - आगामिनि काले अबाधनेन - अपीडनेन " इति च" अनेन च हेतुना हिता इतियोगः, एतदेव भावयन्नाह - " इह " जगति " यः” कर्त्ता "यं” कर्म्मतारूपं” “याथात्म्येन" स्वस्वरूपानतिक्रमेण "पश्यति” अवलोकते "तदनुरूपं च” दर्शनानुरूपं च "चेष्टते" व्यवहरति "भाव्यपायपरिहारसारम्” अनुरूपचेष्टनेऽपि भाविनमपायं परिहरन्नित्यर्थः, न पुनः सत्यभाषिलौकिककौशिकमुनिवत् भाव्यपायहेतुः “से” एवंरूपः “तस्मै” याथात्म्यदर्शनादिविषयीकृताय "हितः" अनुग्रहहेतुः “ इति” एवं " हितार्थो” हितशब्दार्थः, कुत इत्याह
इत्थमेव तदिष्टोपपत्तेः, इष्टं च सपरिणामं हितं, स्वादुपथ्यान्नवदतिरोगिणः,
१ वस्तुस्वरूपकथनम् ॥ २ पराहितरूपे हेतौ स्वहितस्यासम्भवात् ॥ ३ यथात्म० प्र०
For Private & Personal Use Only
90000
पं० युता
॥ ३१ ॥
www.jainelibrary.org