________________
ललितवि०
उपचारतस्तहिं महान्नाथो भविष्यलीत्याशङ्कयाह-"औपचारिकवाग्वृत्तेश्च"उपचारेणानाथे आधिक्यसाधान्नाथधर्माध्या- पं०युता. रोपेण भवा औपचारिकी सा चासौ वाग्वृत्तिश्च तस्याः, चः पुनरर्थे “पारमार्थिकस्तवत्वासिद्धिः” सद्भूतार्थस्तवरूपासिद्धि-का रिति अनीशि नाथत्वानुपपत्तेरिति पूर्वेण योगः। “तत्" तस्माद् "इह" सूत्रे “येषामेव" वक्ष्यमाणक्रियाविषयभूतानामेव नान्येषां "बीजाधानोझेदपोषणैः” धर्मबीजस्याधानेन-प्रशंसादिनोद्भेदेन-चिन्ताङ्करकरणेन पोषणेन-सच्छुत्यादिकाण्डनालादिसम्पादनेन योगः-अप्राप्तलाभलक्षणः, क्षेमं च-लब्धपालनलक्षणं "तत्तदुपद्रवाद्यभावेन” तत्तदुपद्रवाःचित्ररूपाणि नरकादिव्यसनानि आदिशब्दात्तन्निबन्धनभूतरागादिग्रहः तेषामभावन-अत्यन्तमुच्छेदेन त एवेह भव्याः परिगृह्यन्ते,न चैते कस्यचित्सकलभव्यविषये, ततस्तत्प्राप्त्या सर्वेषामेव मुक्तिप्रसङ्गात् , तुल्यगुणा ह्येते प्रायेण, ततश्च चिरतरकालातीतादन्यतरस्माद्भगवतो बीजाधानादिसिद्धरल्पेनैव कालेन
"त एव” नान्ये "भव्याः” उक्तरूपाः परिगृह्यन्ते, स्यान्मतम्-अचिन्त्यशक्तयो भगवन्तःसर्वभव्यानुपकर्तुं क्षमाः, ततः कथमयं विशेष इत्याह-"न च” नैव "एते” योगक्षेमे "कस्यचित्" तीर्थकृतः "सकलभव्यविषये" सर्वभव्यानाश्रित्य प्रवृत्ते, विपक्षे बाधकमाह-"ततो" विशिष्टात्तीर्थकरात्"तत्प्राप्त्या" योगक्षेमप्राप्त्या, सकलभव्यविषयत्वे योगक्षेमयोः, "सर्वेषामेव" भव्यानां "मुक्तिप्रसङ्गात्" योगक्षेमसाध्यस्य मोक्षस्य प्राप्तेः, एतदेव भावयन्नाह-"तुल्यगुणाः" सदृशज्ञानादिशक्तयो ॥३०॥ "हिः" यस्मादर्थे "एते" तीर्थकराः "प्रायेण" बाहुल्येन, शरीरजीवितादिना त्वन्यथात्वमपीतिप्राय ( प्रायेणेति ) ग्रहणं,
१प्राय प्र.
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org