________________
A विद्वत्प्रवादः, न तदुभयत्यागाद् ,आश्रयणीयोऽपि परमार्थेन तल्लक्षणायोगात्, इत्थमपि तदभ्युप
गमेऽतिप्रसङ्गात् , महत्त्वमात्रस्येहाप्रयोजकत्वात् , | "विद्वत्प्रवादः" प्राज्ञप्रसिद्धिः, योगक्षेमयोरन्यतरकृत्सर्वथा तदकर्ता वा नाथः स्यादित्याशङ्कानिरासायाह-"न" नैव "तदुभयत्यागात्” तदुभयं-योगक्षेमोभयं सर्वथा तत्परिहारादनयोरेवान्यतराश्रयणाद्वा "आश्रणीयोऽपि” ग्राह्योऽपि अर्थित्ववशान्नाथः, किं पुनरनाश्रयणीय इत्यपिशब्दार्थः, कुत इत्याह-"परमार्थेन” निश्चयप्रवृत्त्या "तल्लक्षणायोगात्" नाथलक्षणायोगात्, उभयकरत्वमेव तल्लक्षणमित्युक्तमेव, विपक्षे बाधकमाह-"इत्थमपि" तल्लक्षणायोगेऽपि, तल्लक्षणयोगे तु प्रसज्यत एवेत्यपिशब्दार्थः "अतिप्रसङ्गादू" अकिञ्चित्करस्य कुड्यादेरपि नाथत्वप्राप्ते, नहि गुणैश्वर्यादिना महानेव नाथ इति नातिप्रसङ्ग इत्याशङ्कयाह-"महत्त्वमात्रस्य" योगक्षेमरहितस्य महत्त्वस्यैव केवलस्य "इह"नाथत्वे "अप्रयोजकत्वाद्" अहेतुत्वात्, कुत इत्याह
विशिष्टोपकारकृत एव तत्त्वतो नाथत्वात् , औपचारिकवाग्वृत्तेश्च पारमार्थिकस्तवत्वासिद्धिः, 1 तदिह येषामेव बीजाधानोद्भेदपोषणैर्योगः क्षेमं च तत्तदुपद्रवाद्यभावेन,
“विशिष्टोपकारकृत एव" योगक्षेमलक्षणोपकारकृत एव, नान्यस्य, "तत्त्वतो” निश्चयेन "नाथत्वात्" नाथभावात् , १ कुट्या० प्र०. २ तर्हि प्र०.
இருவருaOGASOOOOOOO
Jain Education Interational
For Private
Personal Use Only
www.jainelibrary.org