________________
000000001111011*12000
ललितवि०
| प्राप्नोतीति “निश्चयनयमतं " परमार्थनयाभिप्राय एतद्यदुत -- भव्यत्वं चित्रमिति, व्यवहारनयाभिप्रायेण तु स्यादपि @ तुल्यत्वं, तस्य सादृश्यमात्राश्रयेणैव प्रवृत्तत्वात्, तथा "तथेति” समुदायेष्वपि प्रवृत्ता इत्यादिसूत्रं वाच्यमिति तथाशव्दार्थः, एवमुत्तरसूत्रेष्विति तथाशब्दार्थो वाच्य इति ।
॥ २९ ॥
तथेतरभेदाद्विशिष्ट एव तथा रागाद्युपद्रवरक्षणीयतया बीजाधानादिसंविभक्तो भव्यलोकः परिगृह्यते, अनीदृशि नाथत्वानुपपत्तेः, योगक्षेमकृदयमिति
“तथेतरभेदात् ” तथा-तत्प्रकारो भव्यरूप एव य इतरभेदो — भन्यसामान्यस्य वीजाधानादिना संविभक्ती कर्त्तुमशकितस्तस्माद् “विशिष्ट एव” विभक्त एव " तथा " तेन तेन प्रकारेण "रागाद्युपद्रवरक्षणीयतया” रागादय एव तेभ्यो वा उपद्रवो रागाद्युपद्रवस्तस्मात् रक्षणीयता - तद्विषयभावाद् अपसारणता तया "वीजाधानादिसंविभक्तो” धर्म्मवीजवपनचि| न्तासच्छ्रुत्यादिना कुशलाशयविशेषेण सर्वथा स्वायत्तीकृतेन संविभक्तः —समयापेक्षया संगतविभागवान् कृतः, भगवत्| प्रसादलभ्यत्वात् कुशलाशयस्य, “भव्यलोकः” उक्तस्वरूपः “परिगृह्यते" आश्रीयते, कुत इत्याह - "अनीदृशि" बीजा© धानाद्यसंविभक्ते- अविषयभूते "नाथत्वानुपपत्तेः” भगवतां नाथभावाघटनात्, कुतो ? यतः " योगक्षेमकृत्" योगक्षेमयोः कर्त्ता " अयमिति" नाथः "इति” एवं
१ उक्तरूपः प्र०.
Jain Education International
For Private & Personal Use Only
00000000099609999990€
पं० युतः
॥ २९ ॥
www.jainelibrary.org