________________
00000000000000000000
इत्याह-"कालादिभेदेन” सहकारिकालक्षेत्रगुर्वादिद्रव्यवैचित्र्येण "आत्मनां" जीवानां "बीजादिसिद्धिभावात्" बीजधर्मप्रशंसादि, आदिशब्दात् धर्मचिन्ताश्रवणादिग्रहस्तेषां सिद्धिभावात्-सत्त्वात् , व्यतिरेकमाह-"सर्वथा योग्यता|ऽभेदे" सर्वैः प्रकारैरेकाकारायां योग्यतायां "तदभावात्" कालादिभेदेन बीजादिसिद्ध्यभावात् , कारणभेदपूवकः कार्यभेद इति भावः । पारिणामिकहेतोभव्यत्वस्याभेदेऽपि सहकारिभेदात् कार्यभेद इत्याशङ्कानिरासायाह"तत्सहकारिणामपि” तस्य-भव्यत्वस्य सहकारिणः-अतिशयाधायकाः प्रतिविशिष्टद्रव्यक्षेत्रादयः तेषां, न केवलं भव्यत्व| स्येत्यपिशब्दार्थः, किमित्याहo तुल्यत्वप्राप्तेः, अन्यथा योग्यताऽभेदायोगात् ,तदुपनिपाताक्षेपस्यापि तन्निबन्धनत्वात् , निश्चयनय-|
मतमेतदतिसूक्ष्मबुद्धिगम्यमिति लोकोत्तमाः १० । तथा 'लोकनाथेभ्यः' इति, इह तु लोकशब्देन ___ "तुल्यत्वप्राप्तेः" सादृश्यप्रसङ्गात् । अत्रापि व्यतिरेकमाह-"अन्यथा” सहकारिसादृश्याभावे "योग्यताया" भव्यत्वस्य "अभेदायोगादू" एकरूपत्वाघटनाद, एतदपि कुत इत्याह-"तदुपनिपाताक्षेपस्यापि" तेषां-सहकारिणामुपनिपातो-भव्यत्वस्य समीपवृत्तिस्तस्याक्षेपो-निश्चितं स्वकालभवनं तस्य, न केवलं प्रकृतबीजादिसिद्धिभावस्येत्यपिशब्दार्थः, | "तन्निबन्धनत्वात्" योग्यताहेतुत्वात् , ततो योग्यताया अभेदे तत्सहकारिणामपि निश्चितमभेद इति युगपत्तदुपनिपातः
१ बीजाधानं प्र०. २ सिद्धेर्भावात् प्र०. ३ भव्यत्वस्य तुल्यत्वे सति तस्य सहकारिणामतुल्यत्वं स्यात्. ४ केवलभव्य० प्र०.
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org