SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ १००००० एवं च मूर्त्तत्वाद्ययोगः, सत्त्वविशिष्टताऽपि न, विशेषणमन्तरेणातिप्रसङ्गाद्, एवं नाभिन्ननिमितत्वादृते विरोध इति पुरुषवरपुण्डरीकाणि ८ “एवं च” सत्त्वमात्राभ्युपगमे च "मूर्त्तत्वाद्ययोगो” मूर्त्तत्वाचैतन्याद्यभावः, तद्भावे च तत्प्रतिपक्षरूपत्वादमूर्त्तत्वादीनामप्यभावः प्रसजति, तथाच लोकप्रतीतिबाधा । अत्रैव मतान्तरं निरस्यन्नाह - "सत्त्वविशिष्टताऽ पि न" विशिष्टं स्वपरप| क्षव्यावृत्तं सत्त्वमपि बौद्धाभिमतं न - नैवामूर्त्तत्वादित्यनुवर्त्तते, अविशिष्टं सत्त्वं प्रागुक्तयुक्तेरमूर्त्तत्वादि न भवत्येवेत्य| पिशब्दार्थः, कुत इत्याह - विशेषणं - भेदकमन्तरेण - विना " अतिप्रसङ्गाद्” अतिव्याप्तेः, विशिष्टतायाः सत्त्वैकरूपे जीवे भेदकरूपान्तराभावे चेतनादिविशिष्ट रूप कल्पनायामजीवेऽपि तत्कल्पनाप्राप्तेरिति, “एवम्” एकस्वभावे वस्तुन्यनेकदोषो| पनिपातेन विचित्ररूपवस्तुसिद्धौ न "विरोधो” विजातीयोपमाप्पितधर्म्मपरस्परनिराकरणलक्षणो, विजातीयोपमायोगेऽपि | किं सर्वथा ? नेत्याह " अभिन्ननिमित्तत्वादृते” अभिन्ननिमित्तत्वं विना, यदि ह्येकस्मिन्नेवोपमेयवस्तुगते धर्मे निमित्ते | उपमा सदृशी विसदृशी च प्रयुज्येत ततः स्यादपि विरोधो, न तु विसष्टशैधर्म्मनिमित्तासूपमा स्वनेकास्वपि, पुरुषवरपुण्डरीकेत्यनेन सदृशी विसदृशी चोपमा सिद्धेति । | एते चे यथोत्तरं गुणक्रमाभिधानवादिभिः सुरगुरुविनेयैर्हीनगुणोपमायोग एवाधिकगुणोपमा इष्यन्ते, १ सत्ता० प्र०. २ मूर्त्तत्वाच्चैत० प्र०. ३ बाधा च प्र० ४ विशेष० प्र० ५ एतेऽपि प्र० Jain Education International For Private & Personal Use Only 900000003933600000001 www.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy