________________
छोटी।
@@@@@@@@
त्वमितिवचनाद्, एतद्वयपोहायाह-'पुरुषवरपुण्डरीकेभ्यः' इति, पुरुषाः पूर्ववत् ते वरपुण्डरीकाणीव । __"विरुद्धोपमाऽयोगेन" विरुद्धाया-उपमेयापेक्षया विजातीयायाः पुण्डरीकादिकाया उपमायाः-उपमानस्यायोगेन-अघटनेन, किमित्याह-"अभिन्नेत्यादि" अभिन्नजातीयाया एव भगवत्तुल्यमनुष्यान्तररूपाया उपमाया अर्हा-योग्या इष्यन्तेअभ्युपगम्यन्ते, कुत इत्याह-विरुद्धोपमायाः-पुण्डरीकादिरूपायाः, योगे-सम्बन्धे, “तद्धपित्त्या" विजातीयोपमाध
पित्त्या, तस्य-उपमेयस्य-अहंदादिलक्षणस्यावस्तुत्वं, तादृशधर्मिणो वस्तुनोऽसम्भवाद्, "इतिवचनादि"ति प्राग्वत् , न च वक्तव्यं-पूर्वसूत्रेणैवैतत्सूत्रव्यवच्छेदाभिप्रायस्य सिंहोपमाया अपि विजातीयत्वेन व्यवच्छिन्नत्वात् किमर्थमस्योपन्यास इति, तस्य निरुपमस्तव इत्येतावन्मात्रव्यवच्छेदकत्वेन चरितार्थस्य विवक्षितत्वात् ,
संसारजलासङ्गादिना धर्मकलापेन पुरुषवरपुण्डरीकाणि, यथा पुण्डरीकाणि पङ्के जातानि जले का वर्द्धितानि तदुभयं विहाय वर्त्तन्ते, प्रकृतिसुन्दराणि च भवन्ति, निवासो भुवनलक्ष्म्या आयतन | चक्षुराद्यानन्दस्य, प्रवरगुणयोगतो विशिष्टतिर्यग्नरामरैः सेव्यन्ते, सुखहेतूनि भवन्ति च, तथैतेऽपि । भगवन्तः कर्मपङ्के जाताः दिव्यभोगजलेन वर्द्धिताः उभयं विहाय वर्तन्ते, सुन्दराश्चातिशययोगेन, निवासो गुणसम्पदः, हेतवो दर्शनाद्यानन्दस्य, केवलादिगुणभावेन भव्यसत्वैः सेव्यन्ते,
१ हेतुना. २ अभिप्रायस्वेत्यनेन योगः. ३ प्रवर्तन्ते प्र०. ४ ०नं हेतवः चक्षुरानन्द०. प्र० ५ योगतायां प्र०.
ॐ
ॐॐॐॐ
ल. ५ Jain Education Inte?
जैसे
For Private & Personel Use Only
|w.jainelibrary.org