SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ 10000000000000000000 सादृश्येन वर्णनयोग्या इष्यन्ते,कुत इत्याह-"हीनाधिकाभ्यां" हीनेनोपमेयार्थान्नीचेनाधिकेन चोत्कृष्टेनोपमेयार्थादेव, “उपमा” सादृश्यं मृषा असत्या इतिवचनाद्' एवंप्रकारागमात्, “नचैवमित्यादि" न च-नैवैवम्-उक्तप्रकारेणोपमा-सिंहसादृश्यलक्षणा मृषा-अलीका, कुत इत्याह-"तबारेण" सिंहोपमाद्वारेण "तत्त्वतः” परमार्थमाश्रित्य, न शाब्दव्यवहारतः | तदसाधारणगुणाभिधानात्, विनयविशेषानुग्रहार्थमेतत्, इत्थमेव केवाञ्चिदुक्तगुणप्रतिपत्तिदर्श-18 नात्, चित्रो हि सत्त्वानां क्षयोपशमः, ततः कस्यचित्कथञ्चिदाशयशुद्धिभावात् । ___ "तदसाधारणगुणाभिधानात्" तेषां-भगवतामसाधारणाः-सिंहादौ क्वचिदन्यत्राप्रवृत्ता ये गुणाः-शौर्यादयस्तेषामभिधानात्-प्रत्यायनात्, ननु तदसाधारणगुणाभिधायिन्युपायान्तरे सत्यपि किमर्थमित्थमुपन्यासःकृत इत्याह-"विनयविशेषानु-1 ग्रहार्थमेतत्” विनेयविशेषाननुग्रहीतुमिदमुपन्यस्तं, एतदेव भावयति-"इत्थमेव"प्रकृतोपमोपन्यासेनैव "केपाश्चिद्" विनेय-10 विशेषाणां “उक्तगुणप्रतिपतिदर्शनात्"उक्तगुणा-असाधारणाःशौर्यादयस्तेषां प्रतीतिदर्शनात्,कुत एतदेवमित्याह-"चित्रो" नैकरूपो "हिः" यस्मात् “सत्त्वानां” प्राणिनां"क्षयोपशमः"ज्ञानावरणादिकर्मणां क्षयविशेषलक्षणः"ततः" क्षयोपशमवैचिव्यात् “कस्यचिद्" विनेयस्य "कथञ्चित्' प्रकृतोपमोपन्यासादिना प्रकारेण "आशयशुद्धिभावात् चित्तप्रसादभावान् नैवमुपमा मृषा इति योगः, यदि नाम हीनोपमयाऽपिसिंहादिरूपया कस्यचिद्भगवद्गुणप्रतिपत्तिर्भवति; तथापि सान सुन्दरेत्याह। १ विशुद्धि० प्र०२ ०दं सूत्रमु० प्र० ३ प्रीति० प्र० 00000000000000000000 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy