________________
तद्भेदानुपता दो "न्याय
सत्वमा
0000000000000000000
इहान्यथाशब्दाध्यारोपाद् अन्यथा तद्भेदानुपत्तेरिति योज्यं, तद्भेदानुपपत्तिमेव भावयति-"न" नैव "तुल्यभाजनतायां" तुल्ययोग्यतायां “तद्भेदः" प्रत्येकबुद्धादिभेदो "न्याय्यो" युक्तिसंगतः, "इति” एवं सत्त्वभेदसिद्धौ, मुक्तावपि तद्भदप्रसङ्ग इति पराशङ्कापरिहारायाह-"न च" नैव 'अत एव' इह सत्त्वभेदसिद्धेरेव हेतुतो "मुक्तावपि" मोक्षेऽपि न | केवलमिह "विशेषो" भेदस्तत्रापि सत्त्वमात्रभावात् ,कुत इत्याह-"कृत्स्नकर्मक्षयकार्यत्वात्" ज्ञानावरणादिनिखिलकर्मक्षयानन्तरभावित्वान्मुक्तः, एवमपि किमित्याह-"तस्य च” कृत्स्नकर्मक्षयस्य "अविशिष्टत्वात्” सर्वमुक्तानामेकादृशत्वात्, तदेवार्थान्तरदर्शनेन भावयति
दृष्टश्च दरिद्रेश्वरयोरप्यविशिष्टो मृत्युः, आयुःक्षयाविशेषात्, न चैतावता तयोः प्रागप्यविशेषः, तदन्यहेतुविशेषात् , निदर्शनमात्रमेतदिति पुरुषोत्तमाः।६। एते च बाह्यार्थसंवादिसत्यवादिभिः ____ "दृष्टश्च" उपलब्धश्च "दरिद्रेश्वरयोरपि" पुरुषविशेषयोरपि, किं पुनरन्ययोरविशिष्टयोरित्यपिशब्दार्थः, “अविशिष्टः" एकरूपो “मृत्युः" प्राणोपरमः, कुत इत्याह-"आयुःक्षयाविशेषाद" आयुःक्षयस्य-प्राणोपरमकारणस्य अविशेषात्-अभेदात्, कारणविशेषपूर्वकश्च कार्यविशेष इति, तर्हि तयोः प्रागप्यविशेषो भविष्यतीत्याह-"न चैतावता" मृत्योरविशेषेण
१ अतो न केवलमिहैव भेदः, किन्तु मोक्षेऽपि, सत्त्वमात्रस्य तत्रापि सद्भावात् , तस्य कृत्स्नक्षयकार्यत्वा दो न सिध्यति । २ मृतस्य CII सर्वस्य सदृशः प्राणाभावः आयुःक्षये भेदाभावात् । ३ एतेऽपि प्र०।
கருருருருருருCC4
Jain Education Internationa
For Private & Personel Use Only
www.jainelibrary.org