________________
पं० युता.
ललितवि० नाशुद्धमपि जात्यरत्नं समानमजात्यरत्नेन, न चेतरदितरेण, तथा संस्कारयोगे सत्युत्तरकालमपि ॥२२॥
तद्भेदोपपत्तेः, न हि काचः पद्मरागीभवति, जात्यनुच्छेदेन गुणप्रकर्षाभावाद्, इत्थं चैतदेवं | "न" नैव "अशुद्धमपि” मलग्रस्तमपि"जात्यरत्न"पद्मरागादि “समान" तुल्यम् “अजात्यरत्नेन" काचादिना, शुद्धं तत्स मानं न भवत्येवेत्यपिशब्दार्थः,"न घेतरद्” अजात्यरत्नं इतरण"जात्यरत्नेन, कुत इत्याह-"तथा” अशुद्धावस्थायामसमान | तायां सत्यां, "संस्कारयोगे" शुद्ध्युपायक्षारमृत्पुटपाकसंयोगे, उत्तरकालमपि, किं पुनः पूर्वकाल मित्यपेरर्थः “त दोपपत्तेः' तयोर्जात्याजात्यरत्नयोरसादृश्यघटना दोपपत्तिः,तामेव भावयति-"नहि काचः पद्मरागीभवति” संस्कारयोगेऽपीति गम्यते हेतुमाह-"जात्यनुच्छेदेन" काचादिस्वभावानुल्लङ्घनेन “गुणप्रकर्षाभावात्" गुणानां-कान्त्यादीनां वृद्ध्यभावात्, इदमेव |तन्त्रयुक्त्या साधयितुमाह-"इत्थं च" इत्थमेव जात्यनुच्छेदेनैव, चकारस्यावधारणार्थत्वात् "एतत्" गुणप्रकर्षभवनलक्षणं
| वस्तु, कुत इत्याह-"एवम्" अनेन जात्यनुच्छेदेन गुणप्रकर्षभावलक्षणप्रकारेण । II प्रत्येकबुद्धादिवचनप्रामाण्यात् , तद्भेदानुपपत्तेः, न तुल्यभाजनतायां तद्भेदो न्याय्य इति, न चात
एव मुक्तावपि विशेषः, कृत्स्नकर्मक्षयकार्यत्वात् , तस्य चाविशिष्टत्वात् ।। | "प्रत्येकबुद्धादिवचनप्रामाण्यात्" प्रत्येकबुद्धबुद्धवोधितरूयंबुद्धादीनां पृथगभिन्नस्वरूपाणां वचनानि-निरूपका ध्वनयस्तेषां प्रामाण्यं-आप्तोपदिष्टत्वेनाभिधेयार्थाव्यभिचारिभावस्तस्मात्, अस्यैव व्यतिरेकेण समर्थनार्थमाह-"तद्भेदानुपपत्तेः"
-000000000000000000000
॥२२॥
Jan Education Internal
For Private Personel Use Only
www.jainelibrary.org