________________
000000000000000
कुत इत्याह-"नास्ति' न विद्यते "इह" लोके “कश्चिन्" नरनारकादिः "अभाजनो (नम् )" अपात्रमयोग्य इत्यर्थः, सत्त्वः-प्राणी "इति वचनाद" एवंरूपाप्तोपदेशात् ।
'पुरुषोत्तमेभ्यः' इति, पुरि शयनात् पुरुषाः-सत्त्वा एव, तेषां उत्तमाः-सहजतथाभव्यत्वादिभावतः | प्रधानाः पुरुषोत्तमाः, तथा हि-आकालमेते पैरार्थव्यसनिन उपसर्जनीकृतस्वार्था उचितक्रियावन्तः अ-18 दीनभावाः सफलारम्भिणः अदृढानुशयाः कृतज्ञतापतयः अनुपहतचित्ता देवगुरुबहुमानिनस्तथा गम्भी-16 राशया इति, न सर्व एव एवंविधाः, खुडुङ्कानां व्यत्ययोपलब्धेः, अन्यथा खुडुङ्काभाव इति ।
"पुरुषोत्तमेभ्य इति" "अदृढानुशया इति" अदृढः-अनिविडोऽपकारिणेऽप्यनुशयः-अपकारबुद्धिर्येषां ते तथा,"न सर्वे. त्यादि"न" नैव"सर्व एव" सत्त्वा “एवंविधा" भाविभगवद्भावसत्त्वसमाः, कुत इत्याह-"खुडुङ्कानां" सम्यशिक्षाऽनहाणां"व्यत्ययोपलब्धेः"प्रकृतविपरीतगुणदर्शनाद् , व्यतिरेकमाह-"अन्यथा"प्रकृतगुणवैपरीत्याभावे, खुडुङ्काभावः-खुडुङ्कानामुक्तलक्षणानामभावः, स्वलक्षणस्यैवाभावात् , नच न सन्ति ते, सर्वेषामविगानात् । अस्तु तीर्थकरत्वहतो/धिलाभे | भगवतामन्यासमानता इतरावस्थायां तु कथमित्याशङ्कय प्रतिवस्तूपमया साधयितुमाह
१ परमार्थ० प्र० २०ऽपकारिणोऽप्य० ३ खुडतानां प्र०४ सम्यक्त्वादिप्राप्तेरनन्तरोत्तरावस्थायामसमानता भवतु, पूर्वावस्थासु त्वसमा-| | नत्वं केन प्रकारेण घटमानं भवतीति ।
3000000GGGGOOOOOOOOO004
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org