SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte 1000000००360300500569000 “सकललोकसिद्धमेतत्” क्रियायाः प्रयासमात्रत्वं भवतु नामापरकर्तृकायाः क्रियायाः इत्थमक्रियात्वं, न पुनः सदाॐ शिवकर्तृकायाः, तस्या अचिन्त्यशक्तित्वादित्याशङ्कयाह - " इति ” एवं कर्म्मणो योग्यताभावे क्रियायाः क्रियात्वे एकान्तिके © सार्वत्रिके च सकललोकसिद्धे "न" नैव "अभव्ये” निर्वाणायोग्ये प्राणिनि सदाशिवानुग्रहः, यदि हि स्वयोग्यतामन्तरेणापि | सदाशिवानुग्रहः स्यात्, ततोऽसावभव्यमप्यनुगृह्णीयात् नचानुगृह्णाति, कुत इत्याह - "सर्वत्र" अभव्ये " तत्प्रसङ्गात् " ॐ सदाशिवानुग्रहप्रसङ्गाद्, एतदपि कुत इत्याह - " अभव्यत्वाविशेषात् " को हि नामाभव्यत्वे समेऽपि विशेषो १ येनैककस्या| नुग्रहो नान्यस्येति, एतत्परिभावनीयं यथा-स्वयोग्यतैव सर्वत्र फलहेतुरिति । वरबोधिप्राप्येत्युक्तं, तत्सिद्ध्यर्थमाहQ “बोधिभेदोऽपि” सम्यक्त्वादिमोक्षमार्गभेदोऽपि, आस्तां तदाश्रयस्य विभूत्यादेः, तीर्थकरातीर्थकरयोः “न्याय्य एव” युक्तियुक्त एव, युक्तिमेवाह विशिष्टेतरफलयोः परम्पराहेत्वोरपि भेदात्, एतदभावे तद्विशिष्टेतरत्वानुपपत्तेः, भगवद्बोधिलाभो हि | परम्परया भगवद्भावनिर्वर्त्तनस्वभावो, न त्वन्तकृत् केवलिबोधिलाभवदतत्स्वभावः, तद्वत्ततस्तद्भावासि - | द्वेरिति, तत्तत्कल्याणाक्षेपकानादितथाभव्यताभावभाज एते इति स्वयंसम्बुद्धत्वसिद्धिः ५ ॥ एवमादिकर्तॄणां तीर्थकरत्वेनान्यासाधारणस्वयंसम्बोधेनेति स्तोतव्यसम्पद एव प्रधाना साधारणासाधा - रणा रूपा हेतुसम्पदिति २ । For Private & Personal Use Only www.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy