________________
ललितवि० स्वयं-आत्मनैव सम्यग्वरबोधिप्राप्त्या बुद्धा मिथ्यात्वनिद्रापगमसम्बोधेन स्वयंसम्बुद्धाः, न वै कर्मणोपं० युता. ॥२०॥
योग्यताऽभावे तत्र क्रिया क्रिया, स्वफलाप्रसाधकत्वात् , अश्वमाषादौ शिक्षापत्याद्यपेक्षया । | "स्वयोग्यताप्राधान्यात्" स्वयोग्यताप्रकर्षो हि भगवतां प्रथमबोधे प्रधानो हेतुः, लूयते केदारः स्वयमेवेत्यादाविव केदारादेल्लवतो, "न वै इत्यादि" न वै-नैव कर्मणः-क्रियाविषयस्य कर्मकारकस्येत्यर्थो “योग्यताऽभावे" क्रियां प्रति विषयतया परिणतिस्वभावाभावे "तत्र" कर्मणि "क्रिया" सदाशिवानुग्रहादिका क्रिया भवति, किन्तु ? क्रियाभासैव, कुत इत्याह| "स्वफलाप्रसाधकत्वाद्" अभिलषितबोधादिफलाप्रसाधकत्वाद्, एतदपि कुत इत्याह-प्रेयासमात्रत्वात् क्रियायाः, कथमेतत्सिद्धमित्याह-"अश्वमाषादौ” कर्मणि आदिशब्दात् कर्पासादिपरिग्रहः, “शिक्षापत्त्याद्यपेक्षया" शिक्षा पक्ति
मादिशब्दाल्लाक्षारागादि वाऽपेक्ष्य। R सकललोकसिद्धमेतदिति नाभव्ये सदाशिवानुग्रहः, सर्वत्र तत्प्रसङ्गाद, अभव्यत्वाविशेषादिति भाव|| नीयं, बोधिभेदोऽपि तीर्थकरातीर्थकरयोाय्य एव ।
१ लूयते केदारः स्वयमेवेत्यत्र-अतिसुकरत्वेन कर्तृव्यापारस्याविवक्षणमिव अप्रयासेन तत्त्वदर्शिभवनतया बोधदातृव्यापारस्य स्वल्पत्वात् स्वयं| सम्बुद्धाः । २ "कर्त्तव्यस्य" । ३ महेशकृतोपकारक्रियां प्रत्याश्रयत्वेन हेतुभूता परिणतिः । ४ कार्यकरणे । ५ योग्यताऽभावे सदाशि| वकृता बोधजनकक्रिया।
BHOG0900000000000
00000000000000000000004
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org