SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ Jain Education १४७००००६ बोधनियमा' वितिवचनात्, एतद्व्यपोहायाह - " स्वयंसम्बुद्धेभ्यः” तथाभव्यत्वादिसामग्रीपरिपाकतः प्रथमसम्बोधेऽपि, “अप्रत्ययानुग्रहबोधतन्त्रैरिति” अप्रत्ययो - हेतुनिरपेक्षात्मलाभत्वेन महेशस्तस्यानुग्रहो - बोध योग्यस्वरूप सम्पादनलक्षण उपकारस्तेन बोधः - सदसत्प्रवृत्तिनिवृत्तिहेतुर्ज्ञान विशेषस्तत्प्रधानस्तत्र - आगमो येषां ते तथा तैः, “सदाशिववादिभिः” ईश्वरकारणिकैः, तन्त्रमेव दर्शयति – “महेशानुग्रहाद्बोधनियमाविति” उक्तरूपो बोधो नियमश्च- सदसदाचारप्रवृत्तिनिवृत्ति| लक्षणः, बोधनियमादिति तु पाठे बोधस्य नियमः-प्रतिनियतत्वं तस्मात् । “तथेत्यादि" तथा - तेन प्रकारेण प्रतिविशिष्टं भव्यत्वमेव तथा भव्यत्वं, आदिशब्दात् तदन्यकालादिसहकारिकारणपरिग्रहः, तेषां सामग्री - संहतिः तस्या यः परिपाकः| विपाकः अव्याहता स्वकार्यकरणशक्तिस्तस्मात् “प्रथमसम्बोधेऽपि " प्रथमसम्यक्त्वादिलाभेऽपि किं पुनस्तीर्थकर भवप्रातावपरोपदेशेनाप्रथमसम्बोध इत्यपिशब्दार्थः, स्वयं संबुद्धा इतियोगः । कुत इत्याह स्वयोग्यताप्राधान्यात्, त्रैलोक्याधिपत्यकारणाचिन्त्यप्रभावतीर्थकरनामकर्म्मयोगे चापरोपदेशेन १ अत्रापि स्वयोग्यताप्रकर्षवशादेव तेषां तथाविधसर्वोत्तमबोधिलाभे भवतीति प्रथमसम्बोधोऽपि तेषां स्वहेतुजः सर्वप्रथमसम्बोधोत्तमो भवतीति । २ सर्वेतरभव्यत्वेभ्यो विलक्षणरूपं । For Private & Personal Use Only 990000000 www.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy