SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ இருருருருருருருரு CCE |माह-"अन्यथा" कर्तृत्वेऽनधिकृते "प्रपञ्चासम्भवो" विश्वस्यात्मादिगामिनो जन्मादिप्रपञ्चस्यानुपपत्तिः, कुत इत्याह___ प्रस्तुतयोग्यतावैकल्ये प्रक्रान्तसम्बन्धासिद्धेः, अतिप्रसङ्गदोषव्याघातात्, मुक्तानामपि जन्मादिप्रपंञ्चस्यापत्तेः, प्रस्तुतयोग्यताऽभावेपि प्रक्रान्तसम्बन्धाविरोधादिति परिभावनीयमेतत् ॥ "प्रस्तुतयोग्यतावैकल्ये" प्रस्तुताया-अनादावपि भवे तदा तदा तत्तत्कण्विादिसंबन्धनिमित्ताया योग्यतायाः कर्तृत्वलक्षणाया अभावे "प्रक्रान्तसंबधासिद्धेः” प्रक्रान्तः-प्रतिविशिष्टैः कर्माण्वादिभिः सम्बन्धस्योक्तरूपस्यानिष्पत्तेः, एतदपि कुत इत्याह-"अतिप्रसङ्गदोषव्याघातादू"एवमभ्युपगमे योऽतिप्रसङ्ग:-अतिव्याप्तिःस एवदोषः अनिष्टत्वात्तेन व्याघातोनिवारणं प्रकृतयोग्यतावैकल्ये प्रस्तुतसम्बन्धस्य तस्माद् , अतिप्रसङ्गमेव भावयति--"मुक्तानामपि" निर्वृतानामप्यास्तामन्येषां "जन्मादिपञ्चापत्तेः" जन्मादिप्रपञ्चस्यानिष्टस्य प्राप्तः, कुत इत्याह-"प्रस्तुतयोग्यताऽभावेऽपि" प्रस्तुतयोग्यतामन्तरेणापि "प्रक्रान्तसम्बन्धाविरोधात्" तत्तत्कर्माण्वादिभिः सम्बन्धस्यादोषादू आत्माकर्तृत्ववादिनामित्येवमन्वयव्यतिरेकाभ्यां भावनीयमेतत्। अथ पराशङ्कां परिहरन्नाह न च तत्तत्कर्माण्वादेरेव तत्स्वभावतयाऽऽत्मनस्तथा सम्बन्धसिद्धिः, द्विष्ठत्वेन अस्योभयोस्त १०प्रपञ्चा० प्र०२०प्रपञ्चस्या० Jain Education Inter For Private & Personel Use Only COw.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy