SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ ललितवि० ॥ १६ ॥ आदिशब्दाद् “एतत्रयमनाश्रित्य विशेषेणैतदुद्भवाः । योगदृष्टय उच्यन्ते, अष्टौ सामान्यतस्तु ताः ॥ १ ॥ मित्रा १ | तारा २ बला ३ दीप्रा ४, स्थिरा ५ कान्ता ६ प्रभा ७ परा ८ । नामानि योगदृष्टीनां, लक्षणं च निबोधते" त्यादिग्रन्थो ( योगदृष्टिसमुच्चये १२ - १३ ) दृश्यः ॥ " प्रत्यात्मप्रधानवादिभिरिति” सत्त्वरजस्तमसां साम्यावस्था प्रकृतिः, सैव प्रधानं, ॐ ततः आत्मानमात्मानं प्रति प्रधानं वदितुं शीलं येषां ते प्रत्यात्मप्रधानवादिनस्तैः, उत्तरे हि साङ्ख्या 'एकं नित्यं सर्वाॐ त्मसु प्रधान' मिति प्रतिपन्नास्तव्यवच्छेदार्थं मौलिकसाङ्ख्यैरित्युक्तं, तद्ब्रहणमपि च प्रत्यात्मकर्म्मभेदवादिनां जैनानां कर्तृत्वमात्रविषयैव तैः सह विप्रतिपत्तिरित्यभिप्रायात् कृतम् । 0000000 "आदिकरेभ्यः” इति, इहादौ करणशीला आदिकराः, अनादावपि भवे तदा तदा तत्तत्कर्माण्वादिसम्बन्धयोग्यतया विश्वस्यात्मादिगामिनो जन्मादिप्रपञ्चस्येति हृदयं, अन्यथाऽधिकृतप्रपञ्चासम्भवः, "अनेत्यादि" अनादावपि प्रवाहापेक्षया, किं पुनः प्रतिनियतव्यक्त्यपेक्षया आदिमतीत्यपिशब्दार्थः भवे- संसारे, तदा तदा " तत्र तत्र काले “तत्तत्कर्माण्वादिसम्बन्धयोग्यतया " तत्तच्चित्ररूपं कर्म्मणवो - ज्ञानावरणादिकर्म्मपरिणामार्हाः पुद्गलाः, आदिशब्दात्तेषामेव बन्धोदयोदीरणादिहेतवो द्रव्यक्षेत्रकालभावा गृह्यन्ते, तेन सम्बन्धः - परस्परानुवृत्तिचे|ष्टरूपः संयोगस्तस्य योग्यता - तं प्रति प्रहृता तया, विश्वस्य -- समग्रस्य एवंविधयोग्यतैवात्मनः कर्त्तृत्वशक्तिरिति, आ|त्मादिगामिनः - आत्मपरतदुभयगतस्य जन्मादिप्रपञ्चस्य - प्रतीतस्य इति हृदयमिति - एप सूत्रगर्भः । विपक्षे बाधक Jain Education International For Private & Personal Use Only पं० युता. ॥ १६ ॥ www.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy