SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ 1 | रिग्रहार्थमाह - "भगवद्भ्य इति” तत्र भगः - समत्रैश्वर्यादिलक्षणः, उक्तं च - " ऐश्वर्यस्य समग्रस्य, | रूपस्य यशसः श्रियः । धर्मस्याथ प्रयत्नस्य, षण्णां भग इतीङ्गना ॥ १ ॥” समग्रं चैश्वर्य - भक्तिनम्रतया त्रिदशपतिभिः शुभानुबन्धिमहाप्रातिहार्यकरणलक्षणं, रूपं पुनः सकलसुरस्वप्रभावविनि| स्मिताङ्गष्टरूपाङ्गारनिदर्शनातिशयैसिद्धं यशस्तु - रागद्वेषपरीषहोपसर्गपराक्रमसमुत्थं त्रैलोक्यानन्दकार्याकालप्रतिष्ठं, श्रीः पुनः - घातिकर्मोच्छेदैविक्रमावाप्त केवलालोकनिरतिशयसुखसम्पत्सम|न्वितता परा, धर्मस्तु- सम्यग्दर्शनादिरूपो दानशीलतपोभावनामयः साश्रवानाश्रवो महायोगाॐ त्मकः, प्रयत्नः पुनः - परमवीर्यसमुत्थ एकरात्रिक्यादिमहाप्रतिमाभावहेतुः समुद्घातशैलेश्यवस्थाव्यङ्गयः समग्र इति, अयमेवंभूतो भगो विद्यते येषां ते भगवन्तः तेभ्यो भगवद्भ्यो नमोऽस्त्विति २, | एवं सर्वत्र क्रिया योजनीया, तदेवंभूता एव प्रेक्षावतां स्तोतव्या इति स्तोतव्यसम्पत् १ । एतेऽपि भ | गवन्तः प्रत्यात्मप्रधानवादिभि मौलिकसा ड्रख्यैः सर्वथाऽकर्त्तारोऽभ्युपगम्यन्ते 'अकर्त्ताऽऽत्मेति' वचनात्, तद्व्यपोहेन कथञ्चित् कर्त्तृत्वाभिधित्सयाऽऽह १०४स्वरूप० २ ० संसिद्धं प्र० ३ च्छेदनवि० 960006063 Jain Education International For Private & Personal Use Only 900 9000000000000000 www.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy