SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ Jain Education Int 1000 यग्रहणं, प्रथमेऽधिकृतसामर्थ्य योगासिद्धेः, अपूर्वकरणं त्वपूर्वपरिणामः शुभोऽनादावपि भवे तेषु तेषु धर्म्मस्थानेषु वर्त्त - |मानस्य तथाऽसञ्जातपूर्वी ग्रन्थिभेदादिफल उच्यते, तत्र प्रथमे तस्मिन् ग्रन्थिभेदः फलं, अयं च सम्यग्दर्शनफलः, | सम्यग्दर्शनं च प्रशमादिलिङ्ग आत्मपरिणामः, यथोक्तम् - "प्रशमसंवेगनिर्वेदानुकम्पास्तिक्याभिव्यक्तिलक्षणं तत्त्वार्थश्रद्धानं सम्यग्दर्शनमिति” ( तत्त्वार्थभाष्यम् अ० १ सू० २ ) यथाप्रधानमयमुपन्यासो लाभश्च पश्चानुपूर्व्येति समयविदो, द्वितीये त्वस्मिंस्तथाविधकर्म्मस्थितेस्तथाविधसङ्ख्येयसागरोपमातिक्रमभाविनि किमित्याह - " प्रथमस्ताविको भवेदिति" प्रथमो धर्म्मसंन्याससंज्ञितः सामर्थ्ययोगस्तात्त्विकः - पारमार्थिको भवेत्, क्षपकश्रेणियोगिनः क्षायोपशमिकक्षान्त्यादि| धर्मनिवृत्तेः, अतोऽयमित्यमुपन्यास इति, अतात्त्विकस्तु प्रव्रज्याकालेऽपि भवति सावद्यप्रवृत्तिलक्षणधर्म्मसंन्यासयोगः, प्रत्रज्याया ज्ञानयोगप्रतिपत्तिरूपत्वात्, "आयोज्यकरणादूर्ध्वमिति” केवलाभोगेनाचिन्त्यवीर्यतयाऽऽयोज्य - ज्ञात्वा तथा तथा ॐ तत्तत्कालक्षपणीयत्वेन भवोपग्राहिकर्म्मणस्तथाऽवस्थानभावेन कृतिः - आयोज्यकरणं, शैलेश्यवस्थायामस्य भावात् तत ॐ आयोज्यकरणादूर्ध्वं तु द्वितीयः ॥ ८ ॥ अतस्त्वयोगो योगानां योगः पर उदाहृतः । मोक्षयोजनभावेन, सर्वसंन्यासलक्षणः ॥ ९ ॥ | इत्यादि ( योगदृष्टिसमुच्चयः ३ - ११ ) तदत्र 'नमोऽर्हद्भयः' इत्यनेनेच्छायोगाभिधानं, 'नमो जिने - १ तत्र प्र० For Private & Personal Use Only 90000000000 ww.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy