SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ Jain Education Int 1000 यग्रहणं, प्रथमेऽधिकृतसामर्थ्य योगासिद्धेः, अपूर्वकरणं त्वपूर्वपरिणामः शुभोऽनादावपि भवे तेषु तेषु धर्म्मस्थानेषु वर्त्त - |मानस्य तथाऽसञ्जातपूर्वी ग्रन्थिभेदादिफल उच्यते, तत्र प्रथमे तस्मिन् ग्रन्थिभेदः फलं, अयं च सम्यग्दर्शनफलः, | सम्यग्दर्शनं च प्रशमादिलिङ्ग आत्मपरिणामः, यथोक्तम् - "प्रशमसंवेगनिर्वेदानुकम्पास्तिक्याभिव्यक्तिलक्षणं तत्त्वार्थश्रद्धानं सम्यग्दर्शनमिति” ( तत्त्वार्थभाष्यम् अ० १ सू० २ ) यथाप्रधानमयमुपन्यासो लाभश्च पश्चानुपूर्व्येति समयविदो, द्वितीये त्वस्मिंस्तथाविधकर्म्मस्थितेस्तथाविधसङ्ख्येयसागरोपमातिक्रमभाविनि किमित्याह - " प्रथमस्ताविको भवेदिति" प्रथमो धर्म्मसंन्याससंज्ञितः सामर्थ्ययोगस्तात्त्विकः - पारमार्थिको भवेत्, क्षपकश्रेणियोगिनः क्षायोपशमिकक्षान्त्यादि| धर्मनिवृत्तेः, अतोऽयमित्यमुपन्यास इति, अतात्त्विकस्तु प्रव्रज्याकालेऽपि भवति सावद्यप्रवृत्तिलक्षणधर्म्मसंन्यासयोगः, प्रत्रज्याया ज्ञानयोगप्रतिपत्तिरूपत्वात्, "आयोज्यकरणादूर्ध्वमिति” केवलाभोगेनाचिन्त्यवीर्यतयाऽऽयोज्य - ज्ञात्वा तथा तथा ॐ तत्तत्कालक्षपणीयत्वेन भवोपग्राहिकर्म्मणस्तथाऽवस्थानभावेन कृतिः - आयोज्यकरणं, शैलेश्यवस्थायामस्य भावात् तत ॐ आयोज्यकरणादूर्ध्वं तु द्वितीयः ॥ ८ ॥ अतस्त्वयोगो योगानां योगः पर उदाहृतः । मोक्षयोजनभावेन, सर्वसंन्यासलक्षणः ॥ ९ ॥ | इत्यादि ( योगदृष्टिसमुच्चयः ३ - ११ ) तदत्र 'नमोऽर्हद्भयः' इत्यनेनेच्छायोगाभिधानं, 'नमो जिने - १ तत्र प्र० For Private & Personal Use Only 90000000000 ww.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy